________________
दशाप्येतानि गृह्णीष्व, देहि मह्यं पुनर्वृतम् । दश द्रम्मसंहस्राणि, श्रेष्ठिन्नित्यवदच्च सः ॥ ७५७॥ नूनं स्तैन्याहृतान्येतान्यन्यथा कथमर्पयेत् । इत्थमत्यल्पमूल्येनाऽनल्पमूल्यान्यमूल्ययम् ॥ ७५८॥ नूनं स्तैन्यापवादाय, क्रीतं स्तैन्याहृतं सताम् । सप्तप्रकारः कुशलैश्चौरः शास्त्रे यदुच्यते ॥ ७५९॥ तदुक्तम्"चौर १ चौरापको २ मन्त्री, ३ भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानदश्चैव, ७ चौरः सप्तविधः स्मृतः" ॥ 51॥ धनदत्तो विमृश्यैवं, विवेकविकसन्मतिः । निरुध्य लोभप्रसरं, तानि रत्नानि नाऽग्रहीत् ॥ ७६०॥ सिद्धदत्तं ततश्चौरस्तानि सोऽदीदृशद्रहः । स च लोभाभिभूतात्मा, हृष्टस्तान्यग्रहीद् ध्रुवम् ॥ ७६१॥ पूर्णपापघटश्चौरः सोऽथ लोनकरोऽन्यदा । चटितो नगरारक्षहस्ते नश्यन्नितस्ततः॥ ७६२॥ कशाभिर्निर्दयं निघ्नस्तं चौरमथ सोऽब्रवीत् । ... प्रांच्यं लोप्नं हि निःशेष, वास्तीति वद रे! स्फुटम् ॥ ७६३॥ ताड्यमानः कशाघातैस्तदा तेन स तस्करः । यदभूद्यत्र तन्नामस्थानाभ्यां सर्वमब्रवीत् ॥ ७६४॥ . प्राच्यचौर्यगतानेकवस्तुप्राप्तिप्रमोदभाग् । अधिकाधिकवित्तार्थी, पुरारक्षोऽवदत्पुनः ॥ ७६५॥ रत्नानि क्ष्माभुजः कोशाद्यान्यात्तानि त्वया पुरा । तानि रे! कात: स तदा, कम्पमानः पुनर्जगौ ॥ ७६६॥ 1. योशनो मार डायमा छे छेने भेपो.