________________
हृदि खिन्नो व्यवस्थायां, तदा संस्थाप्य तौ नृपः । दिनैः कतिपयैरन्यत्किञ्चिदुद्भाव्य दूषणम् ॥ ७४६॥ विंशतिं सिद्धदत्तेभ्यं, स्वर्णकोटीरदण्डयत् । महाजनोऽपि चोपेक्षां, द्वेष्यत्वात्तस्य निर्ममे ॥ ७४७॥ युग्मम्॥ लावण्यलीलाललितौ, रूपसौभाग्यशालिनौ । सदलङ्कृतिनेपथ्यौ, ताविभ्यावथ चान्यदा ॥ ७४८॥ राजवर्त्मनि गच्छन्तौ, मन्त्रिपल्या रतिश्रिया । स्मरापस्मारवशतः, साऽनुरागं विलोकितौ ॥ ७४९॥ रूपसौभाग्यसौन्दर्यैः, शिल्पसीमेव वेधसः । . . ताभ्यामपि गवाक्षस्था, युवती ददृशे च सा ॥ ७५०॥ जानानस्तन्महापापं, धनदत्तस्ततस्तदा । इवाक़बिम्बात्त्वरितं, दृशं संहृत्य जग्मिवान् ॥ ७५१॥ सिद्धदत्तस्त्वदान्तात्मा, निर्विवेकमनाः पुनः । तामेव वलितग्रीवं, पश्यंस्तत्र स्थितश्चिरम् ॥ ७५२॥ अकस्मात्तावदाप्तेन, पुरारक्षेण तत्र सः । इङ्गिताकारकुशलेनाऽऽबध्य क्ष्माभुजा( जेऽ )र्पितः ॥ ७५३॥ कियन्त्यहान्यथ क्षिप्त्वा, कारागारे नृपोऽपि तम् । समृद्धत्वाद्दश स्वर्णकोटीरादाय मुक्तवान् ॥ ७५४॥ नात्तं दत्तं तयो केनापि नूनं तथाऽप्यभूत् । हा ! विवेकाऽविवेकाभ्यामिति भेदः पुनर्द्वयोः ॥ ७५५॥ धनदत्तं रहश्चौरः, कश्चिदेत्याऽथ चान्यदा । सपादकोटीमूल्यानि, दश रत्नान्यदीदृशत् ॥ ७५६॥