SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ एवं दिनपरीक्षार्थी, यां यां गृह्णात्यजामयम् । सा सा प्रसूयतेऽस्यैवमजावृन्दमजायत ॥ ७३४॥ ततोऽधुना मे दिवसो, नूनमस्तीति निर्णयात् । प्राप्तश्चतुष्पथे प्रातः, स प्रौढव्यवसायधीः ॥ ७३५॥ तदैवं पञ्चभिः स्वर्णलक्षैः क्रीतं क्रयाणकम् ।। दूरदेशान्तरायातसार्थात्तेन मनस्विना ॥ ७३६॥ सर्वं तच्चार्पितं पोतवणिजां दिवसैस्त्रिभिः । सुवर्णलक्षाः पञ्चासंस्तत्र लाभेऽस्य निर्मलाः ॥ ७३७॥ लाभजातोद्यमश्चैवं,सुधीर्व्यवहरन्नयम् । क्रमाद्वादशकोटीशो, लाभकर्मोदयादभूत् ॥ ७३८॥ परं यथा यथा वित्तं, वर्द्धते स्म तथा तथा । हृदि सम्यग् विवेकोऽस्य, स्पर्द्धयेवाधिकाऽधिकः ॥ ७३९॥ . महेभ्यौ तौ सिद्धदत्तधनदत्तावथान्यदा । भोजनाय गृहे यान्तौ, व्यवहृत्य चतुष्पथात् ॥ ७४०॥ राजाद्यसुतमन्येन, राजपुत्रेण केनचित् । भृशं विवादं कुर्वाणं, क्वचिद्दशतुः पथि ॥ ७४१॥ युग्मम्॥ विज्ञैर्न पार्श्वे गन्तव्यं, द्वयोर्विवदमानयोः । विवेकदृष्ट्या वीक्ष्यैवं, धनदत्तोऽन्यतो ययौ ॥ ७४२॥ विवेकविकलः सिद्धदत्तस्तु कलिकौतुकी । तत्राप्तः सुमनुष्यत्वात्ताभ्यां साक्षीकृतः कलौ ॥ ७४३॥ तदैव कलिभङ्गाय, साहंकारौ समत्सरौ । तं साक्षिणं सहादाय, तौ प्राप्तौ नृपपर्षदि ॥ ७४४॥ न्यायाऽन्यायं तयोः पृष्टस्तदा साक्षी स भूभुजा । सोऽन्यायं निर्विवेकत्वाच्चाऽख्यद्राजाऽङ्गजन्मनः ॥ ७४५ ॥ - -- - -
SR No.002247
Book TitleRatnapal Nrup Charitram
Original Sutra AuthorN/A
AuthorYogtilaksuri, Dharmtilakvijay
PublisherSmruti Mandir Prakashan
Publication Year2008
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy