________________
न महत्यर्हतो जातु, गुरूंश्चापि न वन्दते । वित्तैकचित्तः पशुवत्, स्वजनुर्गमयत्यसौ ॥ ६९९॥ स क्रमानिर्विवेकत्वाद्विमुक्तो विनयादिभिः ।। द्वेष्यो महाजनस्याऽभूदक्षिपट्ट इवान्वहम् ॥ ७०० ॥ देवीवरानुभावनोत्पन्नाऽमलविवेकधीः । त्रिसन्ध्यं धनदत्तस्तु,पूजयत्यर्हतः सदा ॥ ७०१॥ . स धर्म सद्गुरोः सम्यक्, श्रद्धालुः शृणुतेऽन्वहम् । महाकार्येऽपि न समं, केनचित्कलहायते ॥ ७०२ ॥ प्राणातिपाताद्विरतो, न मृषा जातु भाषते । . वित्तं नाऽदत्तमादत्ते, स परस्त्रीपराङ्मुखः ॥ ७०३॥ दूरं त्यजति सप्तापि, व्यसनानि विशुद्धहृत् । महाजनान्तः स मिलंस्तदुक्तं तनुतेऽखिलम् ॥ ७०४॥ दयालुर्दीनदुःस्थादौ, परोपकृतिकर्मठः । सोऽल्पवित्तोऽप्युदात्तात्मा, पात्रे दत्ते यथोचितम् ॥ ७०५॥ परकायैककुशलः, परऋद्धिष्वमत्सरी । स्वजनुः सदनुष्ठानैस्तनुते स फलेग्रहि ॥ ७०६॥ सम्यग्विवेकाविर्भावोल्लसितैर्विनयादिभिः । अन्यैरपि गुणैश्चासीदिष्टः शिष्टजनेषु सः ॥ ७०७॥ अथान्यदा पुरे तत्र, कश्चिद्वैदेशिको वणिग् । असाध्यव्याधिना ग्रस्तो, निशि शून्यमठे मृतः ॥ ७०८॥ तत्संस्काराय मिलितः, सर्वस्तत्र महाजनः । धनदत्तोऽपि तत्राऽगाद्विवेकोद्दिष्टसत्पथः ॥ ७०९॥ . निर्विवेकधनोन्मादविस्मृतात्मा तु तत्र सः । सिद्धदत्तो हि न प्राप्तस्तेनात्याकारितो बहु ॥ ७१०॥ १. 'वृद्धि इत्यपि ।