________________
तद्देवीवरमाहात्म्यात्साप्यजानादिति स्फुटम् । मर्त्योऽयमीदृग्रत्नानि फलमूल्यं हि याचते ॥ ६८७ ॥ ततः प्रविश्य चाम्भोधौ, गृहीत्वा विविधान् मणीन् । तत्रैत्य फललोभेन, सिद्धदत्ताय सार्पिपत् ॥ ६८८ ॥ तस्यै फलानि तावन्ति तदा तानि स दत्तवान् । फलान्यस्यै ददात्येवं, रत्नान्यादाय सोऽन्वहम् ॥ ६८९ ॥ एवं क्रमेण विश्वासादन्योऽन्यैर्जलमानुषैः । तस्मै तत्फलमूल्येन, मणयः कोटिशो ऽर्पिताः ॥ ६९० ॥ मेलितैर्मणिभिर्भृत्वा तं पोतमथ भूरिभिः । मुदितः स्वपुरं प्राप, सिद्धदत्तः शुभेन सः ॥ ६९१ ॥ कोटिशो वीक्ष्य रत्नानि, रत्नवीरेण भूभुजा । अथाऽऽज्ञा लुब्धचित्तेन, तत्पोते त्वरितं ददे ॥ ६९२॥ मया मत्वा तृणं प्राणानवगाह्य महार्णवम् । हा ! कष्टेनार्जिता लक्ष्मीरियमद्यागमद्वथा ॥ ६९३॥ चेंन्माता तु विषं दत्ते, विक्रीणांति पिता सुतम् । राजा हरति सर्वस्वं, का नु तत्र प्रतिक्रिया ? ॥ ६९४॥ त्रुटिताशं मनस्येवं, सिद्धदत्ते विषीदति ।
दिने त्रयोदशेऽथाज्ञां स्वयमेवाऽमुचन्नृपः ॥ ६९५ ॥ सिद्धदत्तस्ततो हृष्टः, पोतादुत्तार्य तान्मणीन् । विक्रीय चासीत् षट्षष्टिस्वर्णकोटीश्वरः पुरे ॥ ६९६॥ निर्विवेकस्तु मिलति क्वचिन्नैष महाजने । स्वलक्ष्मीगर्वितश्चैतं, तृणायापि न मन्यते ॥ ६९७॥ नापि व्यययति क्वापि धर्मे काणकपर्द्दिकम् । तनुते स्वजनादीनामपि नोपकृतिं मनाक् ॥ ६९८ ॥
१. 'विक्रीणीते' इति स्यात् । २. 'क्वचिद्व्ययति धर्मादौ, नापि' इत्यपि ।
,.
૭૧