________________
अथातितृष्णातरलः, कृतकौतुकमङ्गलः । पोतमारुह्य जलधौ, स ययौ मन्दिरे क्वचित् ॥ ६७५॥ व्यवहृत्य चिरं तत्र, प्राप्तातुलधनश्च सः । ववले सपरीवारस्तथैव स्वपुरं प्रति ॥ ६७६॥ . तस्मिन्नीप्सितलाभाप्त्या, हृष्टेऽथायाति वर्त्मनि । दुर्दैवनुन्नैर्दुर्वातैरकस्मादब्धिरक्षुभत् ॥ ६७७॥ लोला अकस्मात्कल्लोलाः, करालाकृतयस्तदा । .. श्मशान इव वेतालास्तत्रोत्तस्थुः पदे पदे ॥ ६७८॥ पोतस्तैरुत्पतन्नुच्चैः, सद्यः स्वर्गं व्रजन्निव । मत्रतर्कि निपतन्, पातालं प्रविशन् पुनः ॥ ६७९॥ सिद्धदत्तादिभिस्त्यक्तजीविताशैस्तदा द्रुतम् । क्षिप्तं पोतं लघूकर्तुं, पण्यं निःशेषमम्बुधौ ॥ ६८०॥ लघूभूतोऽथ तत्पोतो, वायुनोत्पाट्य तूलवत् । .. भवितव्यतया शून्यद्वीपे क्वचिदनीयत ॥ ६८१॥ तत्तटं प्राप्य सञ्जातजीविताशा: प्रमोदिनः । , सिद्धदत्तादयः सर्वे,तदा तत्रोदतारिषुः ॥ ६८२॥ भोज्ये क्षीणे स्वलोकानां, निर्वाहार्थमथोप्तवान् । ' तानि त्रपुष्या बीजानि, सिद्धदत्तस्तटक्षितौ ॥ ६८३॥ तत्कालमुद्गता वल्लयः, प्रवृद्धाः फलिताश्च ताः । स्वादयन्तः फलान्यासां, सुखिनश्चाऽभवजनाः ॥ ६८४॥ निर्गत्याथान्यदाऽम्भोधेस्तत्रैका जलमानुषी । आगमद्विभ्यती तानि, फलान्यत्तुं शनैः शनैः ॥ ६८५॥ पाणावादाय पोतस्थं, रत्नमेकं प्रदर्शयन् । तां फलान्यदतीं धूर्तः, सिद्धदत्तो निषिद्धवान् ॥ ६८६ ।।