________________
मुच्यतेऽद्य स्वस:! काष्ठमेतदुर्वहमम्बुधौ । आदास्यते श्वः सुवहं, काष्ठमन्यत् पुनर्लघु ॥ ६६३॥ कोटरस्थस्तदा श्रेष्ठी, तन्निशम्य वचः स्नुषाः । मामज्ञात्वाऽत्र मध्यस्थमेतन्मा क्षेप्सुरम्बुधौ ॥ ६६४॥ इति बिभ्यन्मनाः प्रोचे, मध्येऽहं श्वशुरोऽस्मि वः । तत्काष्ठमेतज्जलधौ, स्नुषा मा मुचताऽधुना ॥ ६६५॥ युग्मम्॥ तं ज्ञात्वा काष्ठमध्यस्थं, मनसि क्षुभिता भृशम् । बुद्धयैवं पारिणामिक्या, व्यमृशन्नथ ता मिथः ॥ ६६६ ॥ सम्यग्ज्ञातात्मदुर्वृत्तो, जीवनद्य गतो गृहम् । नूनं शुभाय भविता, दुरात्मा नायमात्मनाम् ॥ ६६७॥ स सर्पघटवक्षिप्रं, तदयं क्षिप्यतेऽम्बुधौ । ईदृग् विलोक्यमानो हि, न प्राप्योऽवसरः परः ॥ ६६८॥ ततः प्रक्षिप्य तं तत्र, स्वं दुष्कर्मेव मूर्त्तिमत् । आसंस्ताः सुखिताः स्वेच्छत्यागभोगैश्चिरं गृहे ॥ ६६९॥ संगृह्य भूयसी: स्वर्णेष्टका लोभेन भूयसा । द्वात्रिंशत्स्वर्णकोटीशो, यथा भ्रष्टः स्वजन्मनः ॥ ६७०॥ प्राणान्तकष्टे तत्पोते, भूरिलोभाच्चटंस्तथा । अप्यपत्यधनायुर्व्यः, कर्हिचिन्मित्र! मा भ्रशः ॥ ६७१॥ तवासप्तमसन्तानभोग्यमास्ते धनं गृहे । हा! कष्टं कष्टमीदृक्षं, तत्किमाद्रियसेऽधुना ? ॥ ६७२॥ सुखं निषण्णः स्वगृहे, वित्तैर्वित्तमुपार्जयन् । त्यागभोगैर्निजं जन्म, कृतार्थय महाशय ! ॥ ६७३॥ . मित्रेणैवं बहूक्तोऽयं, नानादृष्टान्तयुक्तिभिः । परं विवेकवैकल्यात्किञ्चिन्नाऽमस्त तद्धितम् ॥ ६७४॥