________________
प्राक् स्वयं बुध्यते काले, वादितो वक्ति च द्रुतम् । किं जागर्ति न वाऽद्यायं?, जाग्रद् वा किं न जल्पति ?॥६५१॥ गर्वितस्तत्किमद्यायं?, किञ्चिन्नव्यधनाप्तितः । उच्चावचवचोभिर्वा, किं केनाप्येष रोषितः ? ॥ ६५२॥ . रोगातः किमु वेत्यादि, निर्णिनीषुः स दाम्भिकः । स्वहस्तेन तमुत्थाप्य, साश्रुदृष्टिस्तदेत्यवग् ॥ ६५३॥ त्वं में चतुर्णां पुत्राणां, स्नेहपात्रं हि पञ्चमः । तदद्यानीदृश इवालोक्यसे वत्स ! किं वद ?॥ ६५४॥ . .. तैः स्नेहवचनैराीभूतहच्छेष्ठिनेऽथ सः । निखिलं तद्वधूवृत्तं, यथादृष्टमवोर्चत ॥ ६५५॥ . . निशम्य तदसंभाव्यं, स्वयमीक्षितुमुत्सुकः । तं वासरं शरत्प्रायं, तदा श्रेष्ठी ह्यमन्यत ॥ ६५६॥ आसन्नमरणः सोऽथ, कपटी तद्भुजिष्यवत् । निशि प्रविश्य प्रच्छन्नं, तस्थौ तत्काष्ठकोटरे ॥ ६५७॥ तन्निश्यपि स्नुषाः प्राग्वत्तदारुह्य नभोऽध्वना । स्वर्णद्वीपे ययुः काष्ठं, मुक्त्वा च विविशुः पुरे ॥ ६५८॥ श्रेष्ठी लोभाभिभूतश्च, तदा निर्गत्य कोटरात् । स्वर्णेष्टकाभिर्नैकाभिरभार्षीत् कोटरं हि तत् ॥ ६५९॥ लब्धद्रव्यागमोपायहृष्टस्तत्कोणके क्वचित् । .. वध्वागमनवेलायां, निलीयास्थाच्च पूर्ववत् ॥ ६६०॥ कृतार्थास्तावदागत्य, तदारुह्य च सत्वराः । अब्धेरुपरि ता व्योनि, चेलुः स्वनगरं प्रति ॥ ६६१॥ तत्काष्ठं पथ्यभूत्तासां, भूरिभारात्सुदुर्वहम् । ततो भानूदयाऽऽसत्त्या, विषण्णास्ता मिथोऽवदन् ॥ ६६२॥ १. मचीकथत् इत्यपि ।
-- ६८