________________
प्रच्छन्नः सोऽपि तद्वृत्तं, सर्वं ज्ञात्वा यथास्थितम् । लात्वा स्वर्णेष्टकायुग्मं तथैवागत्य सुप्तवान् ॥ ६४३ ॥ तासां तेनाऽत्यसंभाव्यचरित्रेण चमत्कृतः ।
,
एवं च चिन्तयामास स चित्ते चतुरश्चिरम् ॥ ६४४॥ नारी यदबला मुग्धा, मधुरं चोच्यते विषम् । तन्मन्ये वैपरीत्योत्थलक्षणाया निदर्शनम् ॥ ६४५ ॥ मुग्धाभिरपि नारीभिर्वञ्च्यन्ते हि विचक्षणाः । अबलाभिरपि क्षिप्रं, जीयन्ते च महौजसः ॥ ६४६ ॥ रक्षतीतीर्ष्यया श्रेष्ठी, द्वारस्थः सर्वदाप्यमूः । स्वैरं विहृत्य सर्वत्राऽऽयान्ति त्वेताः स्वविद्यया ॥ ६४७ ॥ उच्छृङ्खलत्वे मनसः, स्त्रीणां दुष्टात्मनां ततः । व्यर्थो रक्षाविधिर्बाह्यो, लोकेऽपीति यदुच्यते ॥ ६४८ ॥ "मनो निबद्धं न स्त्रीणां किं बद्धो मूढ ! कम्बलः । तासां स्वेच्छाप्रवृत्तौ हि किं कुर्यात्कम्बलो बलम् ?" ॥ 49 ॥ महाकव्रिभिरित्युक्तम्
"कल्लोलैः सह पांशुखेलनतया लोलेयमित्याशयादेकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा । यन्न्यस्ताऽपि पितामहप्रहरके हा! नित्यमिन्दोः, करैर्निर्यात्यर्ककरैरुपैति च नमो नारीचरित्राय तत्" ॥50॥ तन्ना रसदाचाराऽध्वनो नूनं निवर्त्तयेत् । कुलमेवार्गलीभूयाऽथवा दुर्गतिदुःखभीः ॥ ६४९ ॥ जागरित्वेति स चिरं, सुप्तः स्वर्णाप्तिगर्वितः । शब्दितः श्रेष्ठिनाप्येत्य प्रातर्नोत्तरमप्यदात् ॥ ६५० ॥
૬૭