________________
काष्ठं तदेव चारुह्य, निशान्त्यप्रहरे रहः ।। स्वसौत्य यथास्थानं, सुषुपुस्ताः सकैतवाः ॥ ६३६॥ यौवनेनोद्धता: स्वेच्छाविहाराभिरताश्च ताः ।। एवं केनाऽपि( प्य )विदिताः, गच्छन्त्यायान्ति चानिशम् ॥६३७॥ यैः स्वबुद्ध्याम्बुधेरम्बु, प्रमातुं पार्यते पलैः । स्त्रीचरित्रं हि गहनं,न सम्यग् बुध्यतेऽपि तैः ॥.६३८॥ यदुक्तम्"अश्वप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यतां घ । अवर्षणं चापि च वर्षणंच, देवा न जानन्ति कुतो मनुष्या:?"146॥ प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ 47॥
___ . ( योगशास्त्र प्र. २-८५) "विहिविलसिआण खलभासिआण तह कूडमहिलचरिआण। मणवंछिआण पारं, जाणइ जइ होइ सव्वन्नू" ॥ 48॥ अथान्यदा श्रेष्ठिनोऽस्य,भुजिष्यः कुशलाभिधः । सुमहत्काष्ठमन्योऽन्यस्थाने नित्यमवेक्ष्य तत् ॥ ६३९॥ को वियच्चालयत्येतद्वीक्षेऽद्येति विचिन्त्य सः । निशीक्षमाणो निभृतं, वधूवृत्तमबुद्ध तत् ॥ ६४०॥ युग्मम्॥ सदैवैताः क्व यान्तीति?, जिज्ञासुः स च कौतुकी । प्रच्छन्नः प्राक् प्रविश्याऽस्थाद्रात्रौ तत्काष्ठकोटरे ॥ ६४१॥ . प्राग्वत्तत्काष्ठमारुह्य, तनिश्यपि नभोऽध्वना । विहृत्य स्वेच्छया स्वर्णद्वीपतो गृहमाययुः ॥ ६४२॥ १. "विधिविलसितानां खलभाषितानां तथा कूटमहिलाचरितानाम् । ___ मनोवाञ्छितानां पारं, जानाति यदि भवति सर्वज्ञः"॥ इति च्छाया । 1. नोकर