________________
अकस्मादागतां तत्र, तामालोक्य ससम्भ्रमम् ।
उत्तस्थुः सम्मुखं सर्वास्ता: स्नुषाः प्रोचिरे च ताम् ॥ ६२५ ॥ किं पाश्चात्यभवाऽरातिः, श्वशुरः स मृतोऽद्य नः ? | यदस्मत्सुकृताकृष्टा, मातरन्तरिहागमः ॥ ६२६ ॥ सगर्वं साप्यवग् वत्सा !, नानामन्त्रौषधीविदाम् । न नः किमपि दुस्साधं, दुर्गमं च जगत्यपि ॥ ६२७॥ कलाकौटिल्यकुशलामथ तामाकलय्य ताः । प्रीणयित्वा -बहुविधातिथ्यैरिति बभाषिरे ॥ ६२८ ॥ मातराशैशवादत्र, क्षिप्ताः कारागृहे वयम् । साम्प्रतं शरणं प्राप्ता, भवतीमादियोगिनीम् ॥ ६२९॥ विचित्राऽऽश्चर्यविपुलां विपुलां कथमप्यमूम् ।
"
प्रसीद दर्शयास्माकं, तत्कलाकुशलेऽधुना ॥ ६३० ॥ एभिः सभक्तिवचनैर्भृशमानन्दिताऽथ सा ।
दत्ते स्म तासां साधारां, विद्यां गगनगामिनीम् ॥ ६३१ ॥ ततश्चित्ते प्रमुदिताश्छुटिता इव बन्धनात् । चतस्त्रोऽपि हि ता वध्वः, सर्वाभरणभूषिताः ॥ ६३२॥ वाटकस्थं महत्काष्ठमारुह्य शुषिरं शनैः । सद्मसर्वजने सुप्ते, स्वर्णद्वीपे ययुर्निशि ॥ ६३३ ॥ युग्मम् ॥ विविक्तेऽथ क्वचित्स्थाने, तत्र काष्ठं विमुच्य ताः । सुरक्रीडापुरस्यान्तर्विविशुः कौतुकोत्सुकाः ॥ ६३४॥ तत्र च स्फारशृङ्गारानिन्द्रादीन् क्रीडतः सुरान् । नृत्यं चाप्सरसां रम्यं, स्वेच्छया ता व्यलोकयन् ॥ ६३५ ॥ 1. पृथ्वी
E?!