________________
मार्गणानां मार्गयतां, दत्ते गाली: स निष्ठुराः । प्रसह्याऽन्तः प्रविशतां, तेषां च गलहस्तकम् ॥ ६१७॥ सदापि हृदि वित्तार्थचिन्तालॊ विलिखन् भुवम् । कपोलहस्तकं दत्ते, स श्लथीभूतकन्धरः ॥ ६१८॥ इति प्राय: प्रतिदिनं, षड् दानानि ददात्ययम् । तथाप्यदाता प्रथितो, यश: पुण्यैरवाप्यते ॥ ६१९॥ द्वारे प्रवेष्टुं कार्पण्यान्नित्यं द्वास्थ इवार्थिनाम् । स्नुषाश्चाऽसूयया जातु, निःसर्तुं न ददाति सः ॥ ६२० ।। नृपचौरनिधीशानां, कोशाध्यक्षोऽत्र निर्ममे । . वेधसा कृपणो दातृगुणाभिव्यक्तये ध्रुवम् ॥ ६२१॥ यदुक्तम्"विना कदर्यं दातापि, नाऽभविष्यत्प्रसिद्धिमान् । निशां विना कथं नाम, वासरोऽयमितीष्यते?" ॥ 44॥ म्लेच्छगेहमिवाऽस्पृश्यं, त्याज्यं चण्डालकूपवत् । रथ्यानीरवदश्लाध्यं, तत्सद्माभूच्छनैः शनैः ॥ ६२२॥ यत उक्तम्"किंशुके किं शुकः कुर्यात्, फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि, विदधत्यर्थिनः किमु?" ॥ 45॥ यौवनोच्छृङ्खलास्तत्र,काराक्षिप्ता इवाथ ताः । कालं नयन्ति कष्टेन, मिथः सख्यजुषः स्नुषाः ॥ ६२३॥ तं वीक्ष्य श्रेष्ठिनं द्वारे, मूर्तं पापमिवान्यदा । व्योमाध्वनागात्प्रच्छन्नं, सद्मान्तः कापि योगिनी ॥ ६२४॥ १. 'स्नुषाणां चेय॑या' इत्यपि ।
- ६४