________________
इन्द्रत्वेऽपि हि सम्प्राप्ते, यदीच्छा न निवर्त्तते । मूले लघीयांस्तल्लोभः, शराव इव वर्द्धते" 143 ॥
(योगशास्त्र प्र. ४) महीयसाऽपि लाभेन, लोभो न परिभूयते । जीयेत मात्राहीनेन, मात्रासमधिकः कथम्? ॥ ६०७॥ अतिलोभो नृणां नूनं, महानाय जायते । अकाण्डे श्रेष्ठिनः शृङ्गदत्तस्याऽभूद्यथा पुरा ॥ ६०८॥ स शृङ्गदत्तो गदितः, कोऽतिलोभनिदर्शनम् । सिद्धदत्तेनेति पृष्टस्तद्वृत्तं सोऽखिलं जगौ ॥ ६०९॥ तथाहि- .. नगरे रोहणे नानापुंरत्नोत्पत्तिरोहणे । समभूच्छृङ्गदत्ताख्यो, व्यवहारी महाधनः ॥ ६१० ॥ उत्तमाखिललोकेऽत्र, नीलीवन्मलिनात्मकम् । हर्तुं दृग्दोषममुकं, मन्ये विधिरवासयत् ॥ ६११॥ द्वात्रिंशत्स्वर्णकोटीशोऽप्यन्वहं स गतत्रपः । लोभाभिभूतः सामान्यकृत्यानि सृजति स्वयम् ॥ ६१२॥ वयंस्थाः सन्तिः चत्वारस्तनया विनयान्विताः । चतस्त्रस्तस्य तारुण्यभरमाप्ताः स्नुषाः पुनः ॥ ६१३॥ स व्यवहारिकाचारद्रविणव्ययभीरुहृत् । गृहे दत्ते तु न स्थातुं, किञ्चित्कार्यमिषात्सुतान् ॥ ६१४॥ चैत्ये पौषधशालायां, विवाहे च चतुष्पथे । नैति वित्तव्ययाद्विभ्यत्समुदाये च स क्वचित् ॥ ६१५॥ मा विक्षत्कोऽपि भिक्षार्थी, मत्सद्देति भयेन सः । द्वारे कपाटद्वितयं, दत्ते तत्राऽर्गलां पुनः ॥ ६१६॥