________________
यदुक्तम्
"उत्तिष्ठ क्षणमेकमुद्वह सखे ! दारिद्र्यभारं मम, श्रान्तस्तावदहं चिराच्च शरणं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन सहसा गत्वा श्मशानं शवो, दारिद्र्यान्मरणं परं सुखमिति ज्ञात्वा स तूष्णीं स्थितः " ॥ 40 ॥ चिकीर्षवः स्वनिर्वाहं, सुखैर्दुःखैर्यथो तथा । आदायाऽपरवित्तानि यान्तु पोते बुभुक्षिताः ॥ ६०१ ॥ व्याप्रियन्ते तु धनिनो, येऽत्र संक्लेशकर्मसु । भोगत्यागवियुक्तास्ते, दैवकर्मकृतो ध्रुवम् ॥ ६०२ ॥ शास्त्रे सुधीभिरुदरं, नूनं दुष्पूरमुच्यते । तुष्येदिष्टान्नभुक्तौ तु तदपि प्रहरद्वयम् ॥ ६०३ ॥ असंख्यैः स्वर्णरत्नाद्यैराहारैश्चातिपेशलैः । मनस्तु लुब्धप्रकृति, क्षणं जातु न तुष्यति ॥ ६०४॥ सद्मन्यसंख्याः स्युः प्रौढाश्चेन्मणिस्वर्णराशयः । तथापि तुष्टिः पुष्टिर्वा, पुंसामेवाशनादिभिः ॥ ६०५ ।। तन्निर्वाहोचिते वित्ते, क्लिंश्यन्ते किं मुधा जडा: ? । . अप्यद्भुतधनावाप्तौ, लोभस्यान्तो हि न क्वचित् ॥ ६०६॥
यदुक्तम्
"धनहीनः शतमेकं, सहस्त्रं शतवानपि । सहस्राधिपतिर्लक्षं, कोटिं लक्षेश्वरोऽपि च ॥ 41 ॥
कोटीश्वरो नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्त्तिताम् । चक्रवर्त्ती च देवत्त्वं, देवोऽपीन्द्रत्वमिच्छति ॥ 42 ॥
१. 'मूर्खाः क्लिश्यन्ति किं मुधा' इत्यपि ।
દર