________________
श्मशानेऽथ तमादाय, प्राप्तः सर्वो महाजनः । न त्वज्ञातकुलस्यास्य, कश्चिद्दत्ते हुताशनम् ॥ ७११॥ विमृश्याऽथ मिथोऽवादीद्, धनदत्तं महाजनः । सौम्य ! त्वमस्मदादेशादस्य संस्कारमातनु ॥ ७१२॥ महाजनं विदन् मापमिवाऽनुल्लयशासनम् । धनदत्तोऽनुमेने तत्, तदा तद्वचनं सुधीः ॥ ७१३॥ निश्चिन्तो धनदत्तेन, तत्कार्यप्रतिपत्तितः । महाजनस्तु सकलो, दूरे गत्वा निषेदिवान् ॥ ७१४॥ शवं चितायां प्रक्षिप्य, सोऽपाकुर्वन्नथांऽशुकम् । ग्रन्थौ निबद्धमैक्षिष्ट, तत्कट्यां रत्नपञ्चकम् ॥ ७१५॥ आत्मसाक्ष्यपि तद्वीक्ष्य, नादत्तं ग्राह्यमुत्तमैः । इति हाईविवेकेन, नाग्रहीष्ट स नि:स्पृहः ॥ ७१६॥ पञ्चाप्यऽदर्शयत्तानि स त्वाकार्य महाजनम् । तंदा तमाख्यत्सोऽप्येवं, तन्निर्लोभत्वविस्मितः ॥ ७१७॥ त्वमेवैतान्यनाणि, गृहाण वचनेन नः। नाऽदत्तादानदोषस्ते, नूनमित्थं लगिष्यति ॥ ७१८॥ युग्मम्॥ अनाथमीदृग् भूभर्तृस बधि निखिलं धनम् । इत्याविर्भूतसदद्धिर्नाऽग्रहीष्ट तथापि सः ॥ ७१९॥ उक्त्वाऽथ वृत्तं तद्राज्ञे, ददौ तानि महाजनः । तन्निर्लोभत्वहृष्टश्च, धनदत्ताय सोऽप्यदात् ॥ ७२०॥ .. ततः मापार्पितान्येष, सुधीस्तान्यग्रहीन्मुदा । विक्रीणीते स्म पञ्चापि, स्वर्णलक्षैश्च पञ्चभिः ॥ ७२१ ॥ १. 'ऽनुमेनानः' इत्यपि ।