________________
कुष्ठं कनकमञ्जर्याः, केनासीत् कर्मणा पुनः? । अन्धता गुणमञ्जर्याः, केन चाऽभूद्गुणस्तयोः ? ॥ ५६२ ॥ देवानामपि दुष्प्रापः, सम्प्राप्तोऽयं महारसः। कर्मणा केन च मया?, स्वामिन् ! सर्वमिदं वद ॥ ५६३॥ अथ सत्केवलालोकाऽऽलोकिताखिलविष्टपः। . नृपप्रष्ठं मुनिश्रेष्ठः, स्पष्टमाचष्ट पर्षदि ॥ ५६४॥
परिच्छेदश्चतुर्थः . तथाहिइहैव भरतक्षेत्रे,पुरा रत्नपुरे पुरे । सङ्ग्रामवीरः समभूद्रनवीरः क्षमापतिः ॥ ५६५॥ श्रीदेवीप्रमुखाः पापविमुखाः कुशलोन्मुखाः । वल्लभा विनयौचित्यविदस्तस्याऽभवन्नव ॥ ५६६॥ तत्र चाजन्मदारिद्र्यदुःखदग्धाशयावुभौ । ... अभूतां सिद्धदत्तश्च, धनदत्तश्च वाणिजौ ॥ ५६७॥ बहूपक्रान्तमेताभ्यामर्जनाय श्रियः परम् । न सम्पन्नाः क्वचित्सा यल्लक्ष्मी: कर्मानुसारिणी: ॥ ५६८॥ अथान्यदा तयोस्तुल्यदुःखयोर्भविता कथम् ?। निर्वाहो नौ सनिश्वासमिति वार्त्तयतोर्मिथः ॥ ५६९॥ सत्पुमान् कश्चिदित्याख्यदाशासिद्धयभिधा सुरी । लङ्घनैर्नूनमाराद्धा, दारिद्र्यं वां दलिष्यति ॥ ५७०॥ युग्मम् तद्वचःप्रत्ययात्ताभ्यामथ स्वेष्टार्थसिद्धये । एकाग्रभावेनाराद्धा, विंशत्या लङ्घनैर्हि सा ॥ ५७१॥ प्रत्यक्षीभूय साऽप्यूचे, देयं लभ्यं च किन्तु नः । एवं यदेत्य मद्गहे,लङ्घथः साम्प्रतं युवाम् ॥ ५७२॥
• ५८
.