________________
पृष्टं किमेतत् ? किं चोक्तं?, स्वामिनाऽयं च को द्विजः?। सर्वं तदाऽवंदत्सर्ववेदी वृत्तान्तमादितः ॥ ५५१॥ तं च वृत्तान्तमाकर्ण्य, प्रबुद्धा बहवोऽङ्गिनः । मुग्धभट्टश्च सम्यक्त्वे, स्थिरतामासदत्तमाम् ॥ ५५२॥ सप्रियः सोऽथ वैराग्यात्, प्राव्रजत्परमार्थदृग् । महानन्दपदं प्राप्तः, क्रमेणोत्पन्नकेवलः ॥ ५५३॥ भर्तुर्वियोगे ह्यात्मानं, विषयस्मरणोन्मुखम् । सम्यग् धर्मोपनिषदं, विदित्वा विमलामुखात् ॥ ५५४॥ वशीकृत्याऽर्हकृत्येषु, व्यापार्यैवं च सर्वदा । सुलक्षणापि परमब्रह्मसम्पदमीयुषी ॥ ५५५॥ युग्मम्॥ ततो भवभ्रमोद्विग्नैर्दुःखकर्मक्षयेच्छुभिः । यत्नः कार्योऽत्र भो भव्या!, जये सर्वात्मनात्मनः ॥ ५५६॥ धर्मतत्त्वं वदत्येवं, सदस्याः सर्ववेदिनि । प्रबोधमापुर्बहवः, पद्मानीवांरुणोदये ॥ ५५७॥ अत्रान्तरे नृपश्रेष्ठो, ललाटघटिताऽञ्जलिः । इंति ज्ञानिनमप्राक्षीद्विपाकं प्राच्यकर्मणाम् ॥ ५५८॥ प्राज्यं राज्यं क्रमायातं, स्वामिन् ! मम महौजसः । जग्राह कर्मणा केन, जयामात्याऽधमस्तदा ? ॥ ५५९॥ कर्मणा केन च तदा, सती शृङ्गारसुन्दरी । बिडम्बनाः कृतास्तेन, सहते स्म सुदुःसहाः ॥ ५६०॥ प्राच्यसत्कर्मणः कस्य, प्रसादेन मया पुनः । चटत्प्रकर्षाच्चैश्वर्यलक्ष्मीरियमवाप्यत ॥ ५६१॥ १. नित्यशः' इत्यपि ।