________________
जात्वज्वलिष्यच्चेद्देव्यनवधाने परं शिशुः । तीतथ्यश्चाधुनिकोऽभविष्यत्किं वृषोऽर्हत: ? ॥ ५४० ॥ यत्साधर्मिकसांनिध्यं, विनापीह निरन्तरम् । सम्यगेव निविष्टोऽर्हद्धर्मस्तत्त्वदृशां हृदि ॥ ५४१ ॥ श्रद्धानमेव सम्यक्त्वं, तत्त्वार्थानां हि वस्तुतः ।। चलाचलत्वे च हृदस्तदेव घटते कथम् ? ॥ ५४२ ॥ नूनं निश्चलधर्माणामीदृक् तद्बालचेष्टितम् । । विमटुंमपि नो युक्तमास्तां तत्करणं पुनः ॥ ५४३ ॥ . सुरासुरेन्द्रानुगतं, श्रीमन्तमजितप्रभुम् । कौशाम्ब्यां समवसृतं, निशम्यात्रान्तरे पुनः ॥ ५४४ ॥ मुग्धस्वभावं स्वपतिं, समयज्ञा सुलक्षणा । सम्यक्त्वधर्मे सुतरां, निश्चलीकर्तुमित्यवग् ॥५४५ ॥ युग्मम्॥ आर्यपुत्र ! मदुक्तेऽत्र, प्रत्ययो हृदि ते न चेत् । तद्गत्वा पृच्छ कौशाम्ब्यां, सर्वज्ञमजितप्रभुम् ॥ ५४६ ॥ सम्यक् प्रत्येतुमथ तत्कौशाम्ब्यामेत्य सप्रियः । सोऽप्राक्षीत्तं पदैर्गुद्वैमन्वानः सर्ववेदिनम् ॥ ५४७ ॥ तत्किं स्वामिंस्तथेत्यत्र, भणत्येवमिति प्रभुः । . द्विजेन कथमित्युक्तः, पुनराह जगद्गुरुः ॥ ५४८ ॥ . श्रद्धानमेव सम्यक्त्वं, तत्त्वार्थानां यदुच्यते । मुग्धभट्टोऽथ सञ्जातप्रत्ययो मौनमाश्रितः॥ ५४९॥ . परोपकृतिधीराद्यगणभृत्रिजगद्गुरुम् । परिषत्प्रतिबोधार्थं, वन्दित्वाऽथेति पृष्टवान् ॥ ५५०॥ . १. धर्मः । २. विचारयितुम् ।
૫૬