________________
अथाऽकस्मात्सदम्भोजसम्पुटे विधृतः शिशुः । सुर्या कयचित्सर्वज्ञमतोद्योतोद्यतात्मना ॥ ५२९ ॥ विराध्य गुरुकर्मत्वात्सा हि पाश्चात्यजन्मनि । श्रामण्यधर्म समभूत्सामान्या व्यन्तरी सुरी ॥ ५३० ॥ तयाऽन्यदा च पृष्टोऽभूत्केवली भगवनहम् । सुप्रापबोधिर्नहि वेतीति सोऽप्यवदत्तदा ॥ ५३१ ॥ सुप्रापबोधिर्भवती, नूनमास्ते परं त्वया । यतनीयं विशेषेण, सम्यक्त्वोद्भावनाविधौ ॥ ५३२ ॥ ततः प्रभृत्यवधिना, वीक्षमाणा निरन्तरम् ।। ईदृक्कृत्येषु सर्वत्रावहिता तिष्ठति स्म सा ॥ ५३३ ॥ . तया चालोक्य तं बालं, तयाम्भोजपुटे धृतम् । नैके द्विजादयोऽभूवन्मुक्ताऽसूया मतेऽर्हतः ॥ ५३४ ॥ मुग्धभट्टोऽपि हि प्राप्तः, सुतमादाय सद्मनि । सुलक्षणाया मुदितस्तद्वृत्तं सर्वमप्यवग् ॥ ५३५ ॥ साऽप्यवादीत्त्वया देवाऽविचारितमिदं कृतम् । सम्यक्त्वं किल तत्त्वार्थश्रद्धानं युदितं जिनैः ॥ ५३६ ॥ येषां विशुद्ध तच्चास्ते, मिथःसाधर्मिकत्वतः । ते पक्षपांतिनः प्रेत्यः, स्युश्च सुप्रापबोधिकाः ॥ ५३७ ॥ साधर्मिकेभ्यो ह्यधिकः, स्नेहो येषां सुतादिषु । सिद्धान्तनीत्या नियतं, तेषां सम्यक्त्वसंशयः ॥ ५३८ ॥ उपयुक्ता ततो बालं, काचिच्छासनदेवता । भवितव्यतयाऽरक्षत्सम्यक्त्वोद्भावनाकृते ॥ ५३९ ॥ . १. 'प्रेक्ष्याः' इत्यपि ।
૫૫