________________
"अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । । ज्ञानलवदुर्विदग्धं, ब्रह्मापि नरं न रञ्जयति"॥36 ।।(नीतिशतक-२) सर्वज्ञोपज्ञसद्धर्मे, सम्यक्परिणते हृदि । निश्चयश्रावकः सोऽभून्मुग्धभट्टः शनैः शनैः ॥ ५२० ॥ अथ भुञ्जानयो गान्मिथः स्निग्धहृदोस्तयोः । समयेऽजनि गार्हस्थ्याश्रमद्रुमफलं सुतः ॥ ५२१ ॥ . सुतमारोप्य तं कटयां, मुग्धभट्टोऽन्यदा प्रगे । शीतातॊ विप्रसङ्कीर्णा, धर्मार्थाग्निष्ठिकां ययौ ॥ ५२२ ॥ आत्मधर्म विमुच्याऽयं, श्राद्धोऽभूदित्यसूयया । ... सर्वतो मण्डलीभूय, तिष्ठन्तस्तत्र वाड़वाः ॥ ५२३ ॥ श्राद्धोऽसि हन्त ! ते पापं, धर्मार्थाग्निष्ठिका ह्यसौ । अत्राऽऽगा मा महाभाग ! तव धर्मो नु दूष्यते ॥ ५२४ ॥ तदेत्याधुपहासोक्तीर्जल्पन्तः कथमप्यमुम् ।। विदूषकप्रकृतयो, न हि तापयितुं ददुः ॥५२५ ॥(त्रिभिर्विशेषकम्) सोऽर्हद्धर्मोपहासेन, तेन खिन्नो भृशं तदा । समीचीनो यदि जिनोपज्ञधर्मः सनातनः ॥ ५२६ ॥ तदग्निपतितस्तिष्ठत्वक्षताङ्गो ह्यसौ शिशुः । . असूनृतश्चाधुनिकश्चेत्तदस्त्वेष भस्मसात् ॥ ५२७ ॥ इति ब्रुवाणः सहसा, तत्र ज्वलति पावके । तमक्षप्सीच्छिशुं हा ! हा !, विदधत्सु द्विजन्मसु ॥५२८ ॥
(त्रिभिर्विशेषकम्) १. अङ्गारशकटी (अँगीठी) । २. 'श्राद्धोऽसि ते महापापं' इत्यपि ।
५४
-