________________
साध्व्याः सदुक्तिसन्दर्भादित्यादेरुपदेशतः । प्रपेदे लघुकर्मत्वात्सा सद्यो धर्ममार्हतम् ॥ ५०९ ॥
"
सम्यक् श्राद्धक्रियाः सर्वाः साध्वीभिरथ शिक्षिताः । यथोक्तबलं सश्रद्धा, सत्यापयति सा सदा ॥ ५१० ॥ क्षयोपशमतो ज्ञानावरणीयस्य कर्मणः ।
साध्वीपार्श्वे प्रवचनप्रावीण्यं साऽभजत्क्रमात् ॥ ५११ ॥
मनस्ततः प्रभृत्यस्या, नव्यनव्यार्हकर्मसु । लीनं मीन. इवाम्भस्सु, नाऽस्मार्षीद्विषयान्तरम् ॥ ५१२ ॥ अथ प्राप्तश्चिराद्देहं मुग्धभट्टोऽन्यदा प्रियाम् । अप्राक्षीत्सुभ्रु ! सुचिरं, मद्वियोगे कथं स्थिता ? ॥ ५१३ ॥ साप्यूचे नाथ ! सद्धर्मसततव्यापृतात्मना ।
मया मनसि नाज्ञायि, त्वद्वियोगव्यथा मनाक् ॥ ५१४ ॥ प्रिये ! स को हि सद्धर्मस्तेनेत्युक्ता वदच्च सा । ज्ञान श्रद्धानचारित्ररूपोऽसौ धर्म आर्हतः ॥ ५१५ ॥ यथावस्थिततत्त्वानां सङ्क्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥ ५१६ ॥ रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ ५१७ ॥
सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते ।
,
सर्वतो देशतश्चैतत्साधोः श्राद्धस्य च क्रमात् ॥ ५१८ ॥ इत्याद्युक्तस्तया सार्वोपज्ञधर्मः सविस्तरम् ।
सरलप्रकृतेश्चास्य, स भृशं रुरुचे हृदि ॥ ५१९ ॥
यदुक्तम्
૫૩