________________
तत्पृच्छामि सकृत्साध्वीं, मनोरोधनिबन्धनम् । कुलस्त्रीणां हि सर्वत्र, सोपयोगं तदीक्ष्यते ॥ ४९८ ॥ गणिनीमथ साऽप्राक्षीदम्ब ! सम्यग् निवेद्यताम् । साध्व्यस्तरुण्यस्तरलं, रुन्धन्ति स्वमनः कथम् ? ॥ ४९९ ॥ साप्यूचे नव्यनव्योद्यत्सत्कृत्यव्यापृतात्मनाम् । असदध्वनि साध्वीनां, मनो जातु न गच्छति ॥ ५०० .... हस्तिनो मर्मनिहिते, सदा लीनं यथाऽङ्कशे । .. . मनो हि विन्ध्यानुध्यानं विधत्ते न हि कर्हिचित् ॥ ५०१ ॥ लीनं सदा सुसिद्धान्ताध्ययनाध्यापनादिषु ।
. तथा मनोऽपि साध्वीनां, न जातु विषयान् स्मरेत् ॥ ५०२ ॥ यथा शृङ्खलितः कण्ठे, कपिरन्वेति योगिनम् । तथा चपलमप्यात्मव्यापार नियतं मनः ॥ ५०३ ॥ अप्रशस्ते प्रशस्ते वा, व्यापारे नूनमात्मनः । . प्रवर्तते मनो वाताध्वनि तूलमिवाम्बरे ॥ ५०४ ॥ आत्मा संयमयोगेषु, व्यापार्यः सद्भिरन्वहम् । तेषु प्रवृत्तं यद्याति, जातु नाऽसत्पथे मनः ॥ ५०५ ॥ "पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापूतः कार्यः" ॥ 35 ॥ (प्रशमरति) सर्वतो देशतश्चापि, विशुद्धः संयमो भवेत् । सम्यक्त्वदायें नियतं, तत्स्वरूपमिदं पुनः ॥ ५०६ ॥ जीवादीनवतत्त्वार्थानिसर्गाद्वोपदेशतः । सम्यग् यदङ्गी श्रद्धत्ते, तत्सम्यक्त्वमिहेष्यते ॥ ५०७ ॥ तत्र यः स्थिरधीः सर्वा, नित्यावश्यकक्रियाः ।.. सत्यापयेद्यथाकालं, सोऽचिरान्मुक्तिमाप्नुयात् ॥ ५०८ ॥
-- ५२