________________
अजिह्मब्रह्मनिरता, विरता लौकिकाध्वनः । . सार्वोपदिष्टानुष्ठानाऽवहिताः पिहिताश्रवाः ॥ ४८७ ॥ सर्वां स्वजातिमुद्धा, भवकूपे निपेतुषीम् । कृतार्था अपि कृपया, विहरन्त्यभित: क्षितौ ॥ ४८८ ॥
(चतुर्भिः कलापकम्) मात्राद्यशेषसंसारसम्बन्धप्रतिबन्धमुक् । सर्वसावधविरतौ, लीनमासां मनश्चिरात् ॥ ४८९ ॥ राज्ञां दुहितरः काश्चित्काश्चिच्च व्यवहारिणाम् । एता विरक्ता भोगेभ्यो, नि:सङ्गं धर्ममाश्रिताः ॥ ४९० ॥ गोत्रदेवीमिव श्रद्धावन्तश्च जननीमिव । सर्वेऽपि बहु मन्यन्ते, नृपेभ्याद्याः सदाप्यमूः ॥ ४९१ ॥ सखि ! सङ्गतिरप्यासां, परमार्थदृशां ध्रुवम् । जनैरपुण्यैर्दुष्प्रापा, शमसाम्यरसप्रपा ॥ ४९२ ॥ वन्दनाराधनाद्यासामास्तां निःशेषदुःखहृत् । एतत्पदरजोऽप्याशु, ललाटस्पृष्टमिष्टकृत् ॥ ४९३ ॥ इति सख्या गिरा ज्ञातसम्यक्साध्वीगुणाऽथ सा । सरलप्रकृतिश्चित्ते, दध्याविति सविस्मयम् ॥ ४९४ ॥ देशान्तरमिते पत्यौ, स्वल्पकालमपीह मे । सन्मार्गे न चलं चेतः, कथंचिदपि तिष्ठति ॥ ४९५ ॥ शीलं सर्वोपधाशुद्धं, पालयन्त्यः सदाप्यमूः । कथं नाम निरुन्धन्ति, तारुण्यतरलं मनः? ॥ ४९६ ॥ मन्त्रः किमासां साम्नायः, कश्चिद्वा काचिदौषधी?। सम्यग्गुरूपदिष्टोऽस्ति, कश्चिदन्योऽथवा विधिः ॥ ४९७ ॥
__..
-- ५१