________________
.
१
मुग्धभट्टोऽन्यदा पित्रोः, परलोकमुपेयुषोः । देशान्तरेऽगाद्दारिद्र्यनुन्नो मुक्त्वा गृहे प्रियाम् ॥ ४७६ ॥ लघोवृद्धस्य चाऽभावात्सद्मन्येकाकिनी सती ।। बिभ्यत्ययसदाचारकुलमालिन्यतो हि सा ॥ ४७७ ॥ लोलप्रकृतितारुण्योच्छृङ्खलं विषयान् स्मरत् । निरोद्धं कथमप्यात्ममानसं नाशकत्तदा ॥ ४७८ ॥ युग्मम् ॥ महेभ्यपत्न्या कमलश्रियाऽथामलशीलया । समं मनोनिरोधार्थं, सा सख्यमतनोत्सती ॥ ४७९ ॥ . तत्सौत्य सदा स्नेहगोष्ठ्या व्याक्षिप्य सा पुनः । । मनो निषिद्धाचरणाध्वनः किञ्चिनिषिध्यति ॥ ४८० ॥ अन्येास्तत्र विमला, गणिनी विमलाशया । एत्यास्थात्सपरीवारोपाश्रये कमलश्रियः ॥ ४८१ ॥ अदृष्टपूर्विणी साध्वीस्तत्राप्ताथ सुलक्षणा । ताः प्रेक्ष्य मौग्ध्यात्स्वसखीमित्यप्राक्षीत्सविस्मयम् ॥ ४८२ ॥ नि:स्वामिका भ्रमन्त्येताः, किं सर्वत्र सखि ! क्षितौ? । कुत्रासां पत्यपत्यादि, विद्यते च कुटुम्बकम् ॥ ४८३ ॥ मङ्गल्यभूषाभोगाङ्गैरशेषैरपि वर्जिताः । असंस्कृताङ्गनेपथ्याः, किञ्चैता मूर्ध्नि मुण्डिताः ॥ ४८४ ॥ कमलश्रीरिति प्रोचे, तां मुग्धप्रकृतिं तदा । एताः सखि ! महासत्यः, सत्यसंयमजीविताः ॥ ४८५ ॥ मङ्गल्यभूषाविमुखास्त्यक्तनि:शेषकल्मषाः । निष्कषायामलहृदस्तत्त्वार्थोपनिषद्विदः ॥ ४८६ ॥ १.बिभ्यत्यपि सदा' इत्यपि ।
--
५०
.