________________
46
'अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दम । अप्पादन्तो सही होइ, अस्सिं लोए परत्थ य" ॥34॥ (उत्तराध्ययन- १ ) जितात्मता पुनर्लिङ्गैर्ज्ञायते न तु भाषितैः I
सूर्योदयो हि प्रभया, लक्ष्यो न शपथव्रजैः ॥ ४६७ ॥ शमसंवेगनिर्वेदास्तिक्यमैत्रीदयादमैः ।
समत्वाममताद्यैश्च, ज्ञायते हि जितात्मता ॥ ४६८ ॥
अप्यनादिभवाभ्यस्ता, सांसारिकसुखस्पृहा । प्रायो नोत्पद्यते पुंसां, हृदि जातु जितात्मनाम् ॥ ४६९ ॥ यतन्ते च जितात्मानः सर्वस्थाम्ना शुभाशयाः । सर्वज्ञोपज्ञसद्धर्मानुष्ठानेषु निरन्तरम् ॥ ४७० ॥ तस्माच्च सदनुष्ठानोद्योगात्तीर्णभवार्णवाः । जितात्मानोऽचिरादेव, परमं पदमाप्नुयुः ॥ ४७१ ॥ दृष्टान्तश्चाऽत्र वो मुग्धभट्टपत्नी सुलक्षणा । विजित्यात्मानमचिरात्परं पदमुपेयुषी ॥ ४७२ ॥
तथाहि —
रम्यप्रदेशः कोशाम्बीपुर्यासन्नः समृद्धिमान् । शालिग्रामाभिधो ग्रामः, प्रसिद्धः समभूत्पुरा ॥ ४७३ ॥
आसीत्तत्र गुणोद्दामधाम दामोदरो द्विजः । शम्भोरिवोमा सोमाऽस्य, सती प्राणप्रिया पुनः ॥ ४७४ ॥
मुग्धस्वभावः समभून्मुग्धभट्टः सुतस्तयोः । स्नुषा च सत्कुलोत्पन्नान्वर्थसंज्ञा सुलक्षणा ॥ ४७५ ॥
१: " आत्मा एव दमतिव्य, आत्मैव खलु दुर्दमः ।
आत्मदान्तः सुखी भवति, अस्मिन् लोके परत्र च' २. यस्मात्' इत्यपि ।
४८
॥ इति च्छाया ।