________________
यदुक्तम्"दस दस दिवसे दिवसे, धम्मे बोहेइ अहव अहिअयरे । .. इयनंदिसेणसत्ती, तहविअसे संजमविवत्ती"॥30॥( उपदेशमाला) तथा"पेइदिवसं दसजणबोहगोऽवि सिरिवीरनाहसीसोऽवि ।। सेणिअसुओऽवि सत्तो, वेसाए नन्दिसेणमुणी" ॥ 31 ॥ कश्चिद्दुष्टान् रिपॅलक्षं, युद्धे जयति दोर्बलात् । जयेदात्मानमेकं वा, तस्यायं परमो जयः ॥ ४६४ ॥ यदुक्तम्"जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगंजिणिज्ज अप्पाणं, एस से परमो जओ" 132.॥( उत्तराध्ययन) दम्यन्ते हि सुखं नैकैरप्युन्मत्ता गजादयः ।। न तु शक्यो दमयितुं, कैरप्यात्मा निरङ्कुशः ॥ ४६५ ॥ यदुक्तम्"खरकरहतुरयवसहा, मत्तगइंदावि नाम दम्मन्ति । इक्को नवरि न दम्मइ, निरंकुसोअप्पणोअप्पा"॥33॥(उपदेशमाला) संविग्नैर्यैश्च संसारोद्विग्नैरात्मा हि दम्यते । अत्रामुत्राऽपि सुखिनस्ते भवेयुर्यदुच्यते ॥ ४६६ ॥ १. "दश दश दिवसे दिवसे, धर्मे बोधयति अथवा अधिकतरान् । इति नन्दिषेणशक्तिः, तथापि च तस्य संयमविपत्तिः" ॥ इतिच्छाया । २. "प्रतिदिवसं दशजनबोधकोऽपि श्रीवीरनाथशिष्योऽपि । श्रेणिकसुतोऽपि सक्तो, वेश्यायां नन्दिषेणमुनिः' ॥ इति च्छाया॥ ३. “यः सहस्रं सहस्त्राणां, संग्रामे दुर्जयान् जयेत् । एकं जयेत् आत्मानं, एष तस्य परमो जयः" ।। इति च्छाया । ४. “खरकरभतुरगवृषभा, मत्तगजेन्द्रा अपि नाम दम्यन्ते" एको नवरं न दम्यते, निरङ्कुश आत्मन आत्मा" ॥ इति च्छाया ॥
-- ४८