________________
3
संसारापारकान्तारोत्तारणप्रतिभूर्नृणाम् । तदादिशन्मुनिश्रेष्ठो, धर्ममार्गमिति स्फुटम् ॥ ४५६ ॥ दुःखान्नित्यापतजन्मजरामृत्यामयादिनः । बिभ्यद्योऽत्यन्तसातोद्यं, यियासत्यचिरात्पदम् ॥ ४५७॥ संसारसागरोत्तारतरणिप्रभमादरात् । स सम्यगाराधयतादन्वहं धर्ममार्हतम् ॥ ४५८॥ स चाराद्धं सुसाध: स्याजये सर्वान्तरद्विषाम् । आत्मैवाद्यो हि तेष्वेतज्जये यत्ते जिता: समे ॥ ४५९॥ यदुक्तम्"एंगे जिए जिआं पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सव्वसत्तू जिणामहं ॥28॥ एंगप्पा अजिए सत्तू, कसाया इन्दियाणि अ । तेजिणित्तु जहानायं, विहरामि अहंमुणी" ॥29॥ (उत्तराध्ययन) शतं सहस्रं लक्षं वा, ये जयन्ति युधि द्विषः । तेऽपि क्रूराशयाः शूरा, नात्मानं जेतुमीशते ॥ ४६०॥ गुर्वी कोटिशिलां दो•, हेलयैवोत्क्षिपन्ति ये । युद्धैकवीरास्तेऽप्यत्र, नात्मानं जेतुमीश्वराः ॥ ४६१॥ कुलीना वाग्मिनः सम्यक्, सर्वविद्याविदो हि ये । .. नियम्य स्वहिते योक्तुं, तैरप्यात्मा न शक्यते ॥ ४६२॥ यो धर्मं बोधयत्यात्मगिरा मान् दशान्वहम् । स्वयं हि विषयान्भुते, नन्दिषेणमुनिस्तु सः ॥ ४६३॥ १. मोक्षरूपम् । २. “एकस्मिन् जिते जिताः पञ्च, पञ्चसु जितेषु जिता दश । दशधा तु जित्वा, सर्वशत्रून् जयाम्यहम्" ॥ इति च्छाया ॥ ३. “एकस्मिन् आत्मनि अजिते, कषाया इन्द्रियाणि च । ते जित्वा यथाज्ञातं, विहरामि अहं मुनिः" ॥ इति च्छाया ।
४७
-