________________
तदाहतुस्तौ विनयाद्देयं लभ्यं च नाऽत्र नौ । दारिद्र्यदूनौ त्वद्यावां, त्वामम्ब! शरणं श्रितौ ॥ ५७३॥ मातुरड्डकमामण्ड्य, यथेष्टं याचते शिशुः । . सा तस्मै च मुदा दद्याद्देयं लभ्यं च तत्र किम्? ॥ ५७४॥ स्वेष्टं त्वत्तोऽम्ब ! लङ्घित्वा, मार्गयावस्तथाऽधुना । नूनं स्वापत्ययोस्तच्च, वत्सलत्वेन दास्यसि ॥ ५७५ ॥ इत्युक्तिहृष्टा साऽप्याख्यद्वत्सौ ! लक्ष्मीविवेकयोः । याच्यमन्यतरद्वस्तु, न दास्ये युवयोर्द्वयम् ॥ ५७६ ॥ सिद्धदत्तस्तदा लुब्धमना: कर्मानुसारिधीः । अयाचिष्टेहलोकार्थमात्रार्थी परमां रमाम् ॥ ५७७॥ कर्मानुभावात्सुमतिः, स्वल्पलोभ: शुभायतिः । विवेकं धनदत्तश्च, प्रार्थयामास तां सुरीम् ॥ ५७८ ॥ यादृशं यस्य सत्तायां, वेद्यं कर्म शुभाऽशुभम् । उत्पद्यते मतिस्तस्य, तादृशी हि शुभाशुभा ॥ ५७९॥ यदुक्तम्"यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवोपतिष्ठते। तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेवमतिः प्रवर्त्तते" ॥37॥ अथार्थितं तयोर्देवी, प्रतिपद्य तिरोहिता । स्वस्वसौत्य मुदितौ, चक्रतुस्तौ च पारणम् ॥ ५८० ॥ देवीवरप्रणुन्नोऽथ, कश्चिन्मध्यन्दिनेऽन्यदा । योगी समांगात्साम्नायः, सिद्धदत्तस्य सद्मनि ॥ ५८१॥ बाढमावर्जितस्तेन, तथ्यैरातिथ्यकर्मभिः । तस्मै स त्रपुषीबीजान्यार्पिपत्स च योगिराट् ॥ ५८२॥ 1. तु अद्य आवां भी प्रभाएसंधि विराट. १. 'मातस्त्वादिष्टं लङ्घित्वा' इत्यपि ।
-- ५८