________________
चितामणियंत्रपूजन
[८३
शिचत र्थपक्षमास, षण्मास व्यन्तरादिका। ज्वराः सर्वेऽपि नश्यन्ति वातपित्त कफोद्भवाः ।।१०।। डाकिनी शाकिनी चण्डी, याकिनी योगिनी तथा ! लाकिनी नाकिनी सिद्धाः सप्तधा शाकिनी स्मृताः ॥११॥ एतेषां खलू ये दोषा, स्तेसर्वे यान्ति दूरतः । चिन्तामणि सुचक्रस्थ, पार्श्वनाथ प्रसादतः ।।१२।। बिलिख्य काञ्चनस्थाले, श्रीखण्डेन घनेन च । चिन्तामणि . महच्चक्रं दर्भमूलेन योगिना ॥१३।। लिखनीयमिदं चक्र, गधधूपादि पूजितम् । जातिपुष्प सहस्रण, मूलमन्त्रेण पूजितम् ।।१४।। प्रक्षाल्याथ च दुग्धेन वारिणा वा प्रयत्नतः । ज्वरदोषादिभिर्ग्रस्त पात्रं पातव्यमेव हि ॥१५।। एवं. सप्तदिनान्याशु, पुष्पजापपुरस्सरम् । पीत. हि रोगदोषादीन्विनाशयति निश्चितम् । १६।। कार्मणं. याति दूरेण यन्मध्याक्षेतचित्कृतम्। यन्त्रपान प्रयोगेन देहिनां नात्र संशयः ।।१७।। रक्तकण वीरपुष्पै दिश सङ्घयः सहस्र सज्जप्तम् । वश्याकर्षण कार्य, करोति मन्त्राधिराजोयम् ।।१८।। स्तम्भयति शत्रुवाचां, पीतध्यानेन पोतपुष्पोधैः । इति स्तम्भं करोति, विधिना वर वालुकां जप्त्वा ॥१६॥ अनवच्छिन्ना रेखा देया क्षेत्रषु मूलमन्त्रण। नाशयति शलभवृन्द, गुरूपदेशेन सज्जप्तम् ।।२०।। श्मशान कर्पटे खलु श्मशानाङ्गारराजिका च विषैः । धतूरकरस लिखितं, परिजप्तं काहली पुष्पैः ।।२१।। उच्चाटयति महेश्वर ध्वजा निबध्धं समस्त शत्र गणं। मारयति चिताङ्गारैः परिजप्त नास्ति संदेहः ।।२२।। इति संक्षपेण मया कथित चिन्तामणेः फलं सारम् । विस्तरतो विज्ञ यं वृहदुद्धारान्महामतिभिः ।।२३।।