SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथजिनस्तुति [८१ अर्वाचीनं फलं ज्ञयं, वश्यं स्तम्भनमोहने । विद्वषोच्चाटकर्माणि, मनसापि न चितयेत् ।।२६।। शान्तिकं पौष्टिक वापि, धर्म-ध्यान-विवर्द्ध कम् । इहलोकार्थकृन्नित्यं, सङ्घ कार्ये विशेषतः ।।३०।। कर जापो द्विधा ज्ञेयः सृष्टि-सहाररूपतः। ____नंद्यावर्त्तः शुभे कार्य, शंखावर्तस्त्वमङ्गले ।।३१।। प्रथालम्बनहेतुत्वात् शुद्ध स्फटिकमालया। कूर्याज्जाप प्रयत्नेन, कर्मक्षयनिबंधनम् ।।३२।। • अक्षतैः कुसूमैश्चापि, जापः कार्यो निरन्तरम् । ___मूलमन्त्रस्य यत्नेन, परलोकविधित्सयां ।।३३।। ध्यानकाले प्रथमत-श्चन्द्रकान्तसमप्रभम् ।। . पार्श्वनाथप्रभोबिम्ब, संस्थाप्यं प्रविचिन्तयेत् ।।३४।। प्रात्मनश्च प्रभोश्चापि, नान्तरं चिंतयेद्बुधः । दुग्धधाराप्रवाहैश्च विद्यमानं विचिन्तयेत् ॥३५ । मूलमन्त्रस्य बीजानि षट्स्थानेषु नियोजयेत् ।। शिरोंस वक्षः करयो, सृष्टिमार्गेण धीधनैः ।३६।। नादबिन्दुकलाभ्यासाज्ज्योतिरुत्पद्यते पुनः। तत्प्राप्तौ च मनुष्याणां, जायते परमं पदम् ।।३७ । परमेष्ठिमुद्रयाथ, सौभाग्यमुद्रयाऽथवा। ध्यायेत्परमबीजानि, साधकः सुसमाहितः ॥३८।। दशत्रिंशद्विसहितैर्लक्ष याऽथवा। जपेद्यः परमं मन्त्रां, स प्राप्नोति शिवालयम् । ३६।। विद्यासौभाग्यमारोग्य, पुत्रप्राप्तिविभूतयः।। कल्याणं सफलं विद्वि, कणा च कुटुम्बिनः ।।४०।। विधाय सकलां पूजा, प्रभोश्चिन्तामणेरपि। ढौकयित्वाथ नैवेद्यं, जलताम्बूलसंयुतम् ॥४१॥ ततः कर्पूरफालीभिर्घण्टानादपुरस्सरम् । मारात्रिकं विधायोच्चैर्मङ्गलं च प्रभोः पुरः ।।४२।। लवणाञ्चलमुच्चार्य, स्तुयात्स्तोत्रौः सदण्डकैः । ___ पञ्चाङ्गप्रणति कृत्वा, योजयेत्करसंपुटम् ।।४३।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy