________________
८०
मन्त्रकल्प संग्रह
अथातः संप्रवक्ष्यामि, यन्त्रोद्धारं सुशोभनम्।
येन विज्ञातमात्रेण, फलसिद्धिः प्रजायते ।।१५।। मध्यभागे प्रभोबिम्बं फरणामण्डपराजितम ।
पार्श्वयक्षो यक्षिणी च, दक्षिणेतरभागयोः ।।१६।। प्रणवाद्य प्रभो म ह्रीं नमः इति संयुतम् ।
__फणाचक्रोपरिन्यसेत् प्रथमं वलयं मतम् ॥१७॥ .. चतुर्दलं द्वितीयं तु वामादेवीति नामकम्। .
___अाह्वाननाख्यमन्त्रीय तृतीयकं चतुई लम ।।१८।।... प्रणवाद्य चतुर्थ्यतं, समाप्ती ह्रीं नम इति ।
ब्रह्मधरणनागाश्च पद्मावत्यपि नामतः ॥१६॥ षोडशाद्धं दलं तुर्य, मूलमन्त्रसमन्वितम्।
अ आ आदौ अं अः अन्ते दले दले स्वरद्वयम् ।।२०।। पंचमे वलके पञ्च पदानि परमेष्ठिनाम। ,
ॐ नमो ह्रीं नम इति, पद्याद्यन्ते ज्ञानादि च ॥२१॥ षष्ठे षोडशनामानि देवीनां प्रणवैः सह ।
ह्रीं नमोन्त प्रविष्ठानि, रोहिण्यादि दले दले ॥२२॥ प्रणवो मरुदेव्यादि, सप्तमे जिनमातरः। '
चतर्थ्यन्तपदैर्युक्ताः, पत्र पत्र तु ह्रीं नमः ।।२३।। अष्टमे वलके चाष्टो, द्विगुणा निग्रहैः सह। ...
विजयाद्य कांतरिताः, प्रणवो ह्रीं नमस्तथा ॥२०॥ नवमे वलके चाष्टा-विन्द्राद्या प्रणवैः सह।
ह्रीं नमश्चात्र सर्वत्र, चतुर्थ्येक वचः पुनः ।। २५।। मायाबीजेन संवेष्टय, प्रणवेन तथोपरि ।
अङ्क शश्चापि रेखान्ते, विद्यामन्त्रोण, वेष्टयेत् ॥२६॥ पृथ्वीमण्डलमध्यस्थं लक्ष्यक्षरत्रिशूलयुक ।
__कल्पद्रुमसमायुक्त, गुरुपादुकयान्वितम् ॥२७॥ यन्त्रोद्धारः समासेन, विवृतो मन्दमेधसा।
जापध्यान क्रमं वच्मि, विधिवग्दुरुणोदितम् ॥२८॥