________________
श्री जिनस्तवसंग्रह
वन्दारुकल्याणविवृद्धिहेतु,
नमामि संसारसमुद्रसेतुम् ॥३॥ ( इति सुवर्णदुर्गस्थजिनस्तोत्रम् ।)
साधारण जिनस्तवः
(कवालीरागेण गीयते) गतास्ते दुःखमयदिवसा,
गता सा दीनता कष्टा। समाप्ताऽनादिभवयात्रा,
. गतोऽस्मि स्वं पदं कुशली ।।१।। अहो संसारकान्तारे,
मयाऽद्य भ्राम्यताऽदर्शि। जगद्धितकारिसद्बुद्धि
.. जिनाख्यः सार्थपतिरेषः ।।२।। अलोक्याऽऽलोकनाऽपूर्त,
ममेदं दृष्टियुगमद्य । पवित्रीभावमापन्न, - जिनेश्वर ! दर्शनाद् भवतः ।।३।। त्वदीया भक्तिरल्पाऽपि,
विधत्ते पातकं विफलम। यथा वह्नलंबो दारू... . च्चयं क्षणमात्रतो दहति ॥४॥ भव दाताऽथवा कृपण
स्तथापि मे त्वमेवासि। तवाने सत्यमिति भाषे,
कदाचिन्नेव याचेऽन्यम् ।।५।। न मेऽर्थो वैबुधैर्लाभ
. न वा भूपालभोगाद्यः । इदं तु याच्यते भगवन !,
वसेमम मानसे सततम् ॥६॥