________________
मन्त्रकल्प संग्रह
विहिताऽमृतसंगमहोदयता,
शिवशर्मविलास महोदयता। वरितेह जिनेन शिवाङ्गभुवा,
नमताऽत इमं गिरिनारगिरिम् ।।३।। धृतिधूतकुकर्मकलङ्कमलाः,
. कमलामपुनभर्ववासगृहाम् । वृणतेऽत्र सुधामनि योगिगणा,
नमताऽत इमं गिरिनारगिरिम् ।।४।। सुरकिन्नर खेचरराजनतः,
- स्वकदर्शनपावितसज्जनतः । . नतदेहिहितं यदसौ कुरुते,
नमताऽत इमं गिरिनारगिरिम् ।।५।। इत्थ स्तुतो रैवतनामधेयो, .
धरधिराजो धराणीप्रसिद्धः। कुर्याज्जनं भक्तिभरावनम्र,
योग्यं सुकल्याणपरंपरायाः ।।६।।
(इति गिरिनारगिरितीर्थस्तोत्रम् ) श्रीसुवर्णदुर्गस्थजैनचैत्यस्तोत्रम्
(उपजातिवृत्तम ) श्रीआदिनाथादिजिनेन्द्रबिम्ब
_ प्रतिष्ठिताऽपूर्वपवित्रशोभम् । सुवर्णदुर्गाभरणायमानं,
__चतुर्मुखाख्यं जिनचैत्यमीडे ॥१॥ यस्यातितुङ्गत्वविलोकनेन,
- तारङ्गचैत्यं स्मृतिमार्गमेति । श्रीनाहडाह्वाननरेन्द्रकाल
___भवं स्तुवे तज्जिनवीरचैत्यम् ।।२।। अन्यच्च पाख्यिजिनेन्द्रधाम
स्फुरद्यशोराशिमिवोज्ज्वलश्रि।