________________
श्री महातीर्थस्तोत्रम्
कल्लाणपयगई सो,
पावेइ धुवं न संदेहो ॥१०॥ ( इति नवपदस्तोत्रम् ) श्री शत्रुञ्जयमहातीर्थस्तोत्रम्
(द्र तविलम्बितवृत्तम) विमलकेवलबोधदिवाकरो,
. जिनपति पनाभिभवो विभुः । नवतिपूर्वमित श्रितवान्यकं,
नमत त सततं विमलाचलम् ।।१।। अजितनाथं मुखा अपि तीर्थपा,
गतमलाः कमलाश्रितपत्कजाः । यमभिचर्य शिवं सुखमाप्नुवन्,
___ नमत तं सततं विमलाचलम् ।।२।। मुनिवराः समताम्बुसरोवरा,
. धृतिधरा गणरत्नमहाकराः । परमधाम ययुर्यदधिश्रिता,
नमत तं सततं विमलाचलम् । ३।। (इति श्री शत्रयं जयस्तीर्थस्तोत्रम् )
श्रीगिरिनारगिरिस्तोत्रम्
(तोटकवृत्तम्) यदुवंशनभोहिमदीधितिना, ..
वसुधावसुधारमपास्य रयात्। चरणं जगृहेऽत्र शिवाङ्गभुवा,
नमताऽत इमं गिरिनारगिरिम् ।।१।। घनकज्जलरुक्कमनीयतनु
यंतनुत्यपदाम्बुरुहद्वितयः । इह केवलमाप स नेमिजिनो,
नमताऽत इमं गिरिनारगिरिम् ।।२।।