________________
मन्त्रकल्प संग्रह
श्री चतुर्विंशतिजिनस्तोत्रम्
( रथोद्धतावृत्तम ) आदिनाथमजितं सुसंभवं,
संभव विनयतोऽभिनन्दनम् । संस्तवीमि सुमति मतिप्रदं,
पद्मकान्तिमथ कान्तविग्रहम ॥१॥ श्रीसुपार्श्वशशिलाञ्छनौ जिनौ,
संप्रणौमि सुविधीशशीतलौ। खङ्गिलक्ष्मवसुपूज्यनन्दनौ,
जंगमौ दिविजपादपौ भजे ॥२।। . अर्चयामि विमलं जिनं तथाऽ
नन्तनाथमधिदैवतं परम्। धर्मशान्तिजिननायको स्तुवे, .
कुन्थुनाथमरनाथमाश्रये ॥३॥ मल्लिनाथमुनिसुव्रतो नमि
नेमिनी स्तवनगोचरं नये। पार्श्वनाथमभिनौमि नित्यशो,
. वर्धमानमभि वद्धितौं गुणः ।।४।। अनिशं देवनराधिनार्थः
स्मृताः स्तुताः पूजितवन्दिताश्च । . जिनाश्चतुर्विंशतिरीशितारो,
भवन्तु कल्याणविवर्धनाय ॥५।। (इति चतुर्विंशतिजिनस्तोत्रम् ) श्री पञ्चपरमेष्ठिस्तोत्रम्
( उपजातिवृत्तम् ) विशुद्धविज्ञानभरोपपन्नाः,
परोपकारप्रवणा जनेभ्यः । कुर्वन्ति ये धर्मपथप्रदान,
जयन्तु ते तीर्थकराः पृथिव्याम् ।।१।।