SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६६ मन्त्रकल्प संग्रह विद्यते प्रशमलालसा यदि, विद्यते ! तत इमं निषेवताम् । येन मे भवति तापहीनता, ये नरमवजिता हि ते ॥ २॥ यस्य जन्मसमये द्य जातपाः, स्वागतं विदधतेऽविजातपाः । कृत्तराग ! जनता तवानति कृत्तराsस्ति विभवैरथोद्धता ||३|| ( इति श्री शीतलजिन स्तोत्रम ) अगुप्तकारकं नाम जिनस्तोत्रम् (अनुष्टुब्वृत्तम् जिनेन्द्र तव पादाब्जं, शुभसा रविराजितम् । भजन्ते विगतम्लानि, पद्मपुष्पमिवाऽलयः ||१|| - ( कर्तृ गुप्तम ) देवलोकमनोहारि - त्वदास्यनिर्गतं वचः । करोति शान्तसंतापं, वारिवाहो महीमिव । २।। ( कर्मगुप्तम् ) तारकेनास्ति मे भक्ति-स्त्वयि विश्वैकवत्सले । ' जातापि खण्डिता पूर्व मया तार्यः कथं भवः ॥ ३ (करण गुप्तम् ) प्रणतिक्रियया युक्ता, भवन्ति ते महोदयाः । अरूपविग्रहायेन, नमन्ति ते ज्ञशेखराः ||४) ( सम्प्रदानगुप्तम् ) समादरं जिने कुर्याद विशेषं यः सुखार्थिकः । मनोऽभीष्टप्रसिद्ध्यर्थं, सेव्यश्चिन्तामणिर्यतः ||५|| (अपादान गुप्तम् मुक्तिसौख्याशया येन, भवत्यागो विधीयते । यदि नमेद् भवन्तं स तदा मोक्षो न दुर्लभः ॥ ६ ॥ (अधिकरणगुप्तम् ) जिनेन्द्रस्तवमानन्द - दर्शनं सुमतिः सदा । करोति भबदावाग्नि - पुष्करावतंसोदरम् ||७|| (संबन्ध गुप्तम् ) जिनोनास्ति शुभ रिण - मंदीयहृदयाम्बुजे । तेनेयं यातुधानीव, विपत्तिरनुधावति ||८|| ( आमन्त्रित गुप्तम् )
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy