________________
६४]
मन्त्रकल्प संग्रह
सोऽपि त्वया संहृतिमापितोऽ हो,
पंचेषुकः श्रीजननी यदीया। चतुर्भुजो यस्य पिता प्रसिद्धो, .
नमोऽस्तु ते वीतभयाय तस्मै ॥१०।। मुनीश ! त्वत्सापि रतिस्तु तां धि
कालं गते जीवति जीवितेशे। रोषादितीव प्रणनाश यस्मात्,
. सभक्ति तुभ्यं प्रणमामि नित्यम् ।।११।। व्वव्वेति यः संकथनेऽप्यशक्तः,
पादाम्बुजं सोऽपि तवाऽऽप्य भक्त्या । वशंवदब्रह्मसुतश्च किनाs
प्पतिर्व गाम्भीर्ययुताऽऽशयः स्यात् ॥१२।। रणाऽऽनन्दकारोऽसि तथाऽप्रपञ्चः, ,
सस्नेहमूर्ति विगतस्पृहोऽपि । णोपाधिकत्वे निरुपाधिकत्व
____महोविभदिस्तव चित्रमेतत् ।।१३। गजारिरप्येति यदीयदेह- ,
लावण्यराशौ प्रशमं निमज्जन् । णं वः स दद्यात्प्रविधूतपाप्मा,
चतुर्गतिच्छेदनधर्मदेशी ॥१४॥ सतामघानामभिनाशकः स्त्राक,
व्वेत्ता जगद्भावमनारतं यः। सिंहासनस्थो नहि कैः प्रणेमेऽ
परद्वितीयेन्दुरिवाशु लोकः ।।१५।। ढक्कारवोत्कण्ठितयोषिदोघोऽ
मंस्तात्र हि मैदशसौख्यलीलां। हतान्धकारे तव दोक्षणाहे,
.... वज्रयाज्ञया ताडिततूर्यरामे ॥१६॥ .