SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्री जिनस्तोत्रसंग्रह नाऽन्यः समर्थो जिन ! भावशत्रुतः, कतु जनो रक्षणमत्र भूत्रये ।।१४।। द्रतविलम्बितमध्यगतिर्भवेत्, स्वजनितस्य मलीमसकर्मणः । इति ममापि तथैव भवेद्धव मव ततो दुरिताच्चपलं मम ॥१५।। ताल्लोकान् भवजलधौ निमज्जतोऽह __ मालोक्याऽहमपि तथैव चेति भीतः । श्रुत्वा त्वामलमतितारणाय तेषां, बुद्धिर्म भवति ततः प्रहर्षिणीयम् ।।१६।। दुष्कर्मभूपतिरमात्यवरश्च मोहः, सिंहोद्धता कुमतिवेत्रधरी च यत्र । दुर्नीतिधाम च कषायकुभृत्यवर्गः, सौख्यं प्रभो! भवपुरे न मयाऽत्रदृष्टम् ॥१७॥ नरपतिरपि देव ! प्राप्तवान्यो न सेवां, __तव पदजलजानां निष्फलं तस्य जन्म । जगति भवति धन्या मालिनी संव यस्याः, करचितसुमनोभिः पूज्यते तेऽह्रियुग्मम् ।।१८।। अशोकदेव पुष्पवृष्टि दिव्यनाद दुन्दुभि, . . गतप्रपञ्च ! चामरं तथाऽऽसनं प्रभाऽऽस्पदम् । . सिताऽऽतपत्रमित्यमीभिरष्टप्रातिहार्यक ..... निषेव्यसे त्वमीश साधकः सदेव सिद्धिभिः ।।१९।। नमदभव्याम्भोजावलिविकसनं कुर्वति सति, . निविश्याऽऽसन्याऽऽशूदयशिखरिणोवाऽऽर्यवचनैः । पदाद् भ्रष्टं ज्ञात्वा निजमिव ययो त्वत्पदकजं, रविर्वानाऽऽश्चयं भवति महतां भूतिरनघा ।।२० । .. तावके जनने प्रमोदितनिर्जरावलिभिर्मुदा, चर्चरीमुरजाऽऽनकादिसभेरितूर्यगणस्य ते ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy