________________
श्री जिनस्तोत्रसंग्रह
श्री जिनस्तोत्रसंग्रहः
श्रीमहावीरस्तवः
(विविधच्छन्दोनिबद्धः) प्रार्याऽधिपः स वीरो,
. वचोविशुद्धयं ममामरैरर्च्यः । .. यद्गीर्गीर्वाणसरिति,
.. कृतप्लवैर्भूयते विजरैः ।।१।। त्वं वीरं ! लोकशरणं,
___शरण रत्नत्रयस्य भववाधैः । तरणे जगतस्तररिंग
स्तरणिस्त्यागीति बोधने भविनाम ।।२।। त्वत्पदकंजभूतिलिप्तकान,
वैतालीयमपि प्रभो ! भयम् ।। :मनुजा नहि बाधते तदा,
___मागादेस्तु कुतो विबाधनम् ।।३।। ___वक्र ते वीक्ष्य शीताऽऽभ,
कारकं कौमुदाऽऽह लत्तः । प्राप्नोति नहि कि मोदं, . '
नरो जडाशयश्चापि ।।४।। अमरनरगणनतपदकजयमल !,
सकलभुवनजनहितकर सुचरण ! ! - समदमदनकरिविषमनख ! विमद !
वितर सुखमचलधृतिमति सुविरति ।।५।। येन जिनेश ! सभां द्रुतमध्याss
गतमनुजेन तवाऽऽस्यमलोकि । मुक्तिरमा तमपीच्छति चेत्सा,
तव चरणाम्बुरुहं किमु मुञ्चेत् ।।६।। आख्यानकीर्तेरपि ते जिनेश!, .
भवन्ति लोकाः किल कीत्तिभाजः।