________________
मंन्त्रकल्प संग्रह
जीवानामभयप्रदानपरहोदघोषानघध्वंसिनः, सिद्धयं तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ।।४।। श्रीमान शाहि अकव्वरक्षितिपतिय द्वारिभरानंदितः, कृत्वा त्वाकरमुक्तिमुक्तिमनघां बिभ्रददौ दक्षिधीः । तीर्थ जैनजनाय तीर्थतिलकं शत्रुजयोर्वीधरं, सिद्धयं तस्य मुनीन्द्रहीरविजयस्यानंदिके पादुके ।।५।। स्वं गाढाग्रहिणं कदाग्रहमघांकूरं विहाय स्वयं, भुपाका ऋषिमेधजीप्रभूतयः श्रेयोऽथिनोभ्येतराः । भृगवं बिभरांबबभूवुरनिशं यत्पादपाथोरुहे, सिद्धये तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ॥६॥ चैत्याद्यादरण तानुसरणेः सन्माभदानोत्सवै, रेकच्छत्रमिवाभवद्भगवतां सद्वासनं . शासनम् । येऽस्मिन श्री तपगच्छ वल्लिजलदेऽलंकुर्वति मातलं, सिद्धये तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ।।७।। श्रीवत्सध्वजमत्स्यवऋकुलिश छत्रांकुशांभोरुहां- . भोधिस्वस्तिकचामरद्विपनिपद्वीपादिचिह्नांकिते । ये नित्यं नमतां भवंति वशगा राज्य यः सिद्धयस्ते सूरेस्त्रिदशसुते सुजयतामानंदिके पादुकै ।।८।। प्रत्यूषे प्रतिवासरं प्रगणिताप्रीढप्रमोदः पुमा नेतत्स्पष्टकमष्टकं पद्धति यः कृत्वकतानं मनः। सौभाग्यादिग गौघरत्नखनयः क्रीडंति तस्यौकसि,
प्राज्ञाः प्रीणितपुण्यहेमविजया नंदादिसंपत्तयः ।।६।। इतितपागच्छाधिराज श्री हरीविजयसूरीश्वरपादुकाष्टकं संपूर्णम् ।