________________
श्री केसरविजयचरितस्मृतिः
[५५
चिरवाञ्छितगुरुयोगो,
जातः संविग्नपथपथिकः ॥१६॥ सिंहासनदुर्गे पुन
रागत्याऽपाठयच्च मामग्रे। शब्दानुशासनाख्यं,
व्याकरणं हेमचन्द्रकृतम् ॥१७॥ गत्वा गूर्जरदेशे,
स्थित्वा महिषाणके च भृगुकच्छे । शास्त्र न्यायाभिख्यं,
. शाब्दमपि च पाठयाञ्चके ॥१८॥ श्रीपादलिप्तनगरे,
गत्वा स्थित्वा च नन्दमितमासान् । वैशेषिकमतशास्त्र,
नतनमधिपाठयामास ॥१९॥ प्रागत्य मरो पुनरपि,
जावालिपुरेऽतिवाह्य वर्षतुम् । विचरन् ग्रामे ग्राम,
सिंहासनदुर्गमधितष्ठौ ।।२०।। रुग्णशरीरत्वेन च,
चातुर्मास्यद्वयं विधायाऽसौ । । तौव पुरे स्वर्मति
" मासादितवान् समाधियुतः ॥२१॥ चन्द्रषि-ग्रह-भूमित
वर्षे फाल्गुनसितद्वितीयायाम् । स्वर्गमितो मे स गुरुः
श्री केसरविजयनमिमुनिः ॥२२॥ तस्मै नमोऽस्तु गुरवे,
केसरविजयाय लब्धविजयाय ।