________________
श्रीकेसरविजय चरितस्मृतिः
[५३
उदितः स्वकुलाकाशं,
चन्द्रवदुद्द्योतयामास ॥२॥ केशवंशभूषा
मणिनिभयोज्येष्ठमल्लवनदेव्योः । आत्मभव: कुलदीपः,
समजायत रामचन्द्राख्यः ॥३॥ निधिशशिनिधीन्दुवर्षे, (१९१६)
. यो जातो वर्धितश्च जनिभूमौ । महिषीवाटे पुनरधि
गतविद्यो जैनयतिपावें ।।४।। तत्रैव संनिवेशे,
वेदानलनिधिशशाङ्कमितवर्षे । (१४३४) त्रिस्तुतिमतगुरुपायें, __. धृतदीक्षो रङ्गविजयोऽभूत् ॥५॥ द्वितीयवर्षे शुचिसित
दले द्वितीयातिथौ च भृगुदिवसे। . जावालिपुरेऽजायत्,
च्छेदोपस्थापना यस्य ॥६॥ तस्मिन्नेव च समये,
गुरुणा 'श्रीकोत्तिचन्द्र' इति नाम्ना । .यस्याऽभिधानमप्रथि,
___ 'श्रीकेसरविजय' इति रुचिरम् ।।७॥ मरुमालवादिभूमौ,
. विहृत्य येन प्रबोधिता जनता । श्रीजैनधर्ममार्गे,
प्रवर्ततेऽद्यापि हितकामा ॥८॥ द्विक-शर-निधीन्दुवर्षे,
श्रावणशुक्ल तिथौ तृतीयायाम ।