________________
श्री कीर्तिचन्द्रमुनिस्तुतिः
तमिस्रा वा पंक्तिः शमितसुकृताऽभूदवसिता, मुनीन्द्रो वः पुष्यात्स सुखलतिकां सिद्धिविजयः ।।६।। शिवं दातोदात्तो दलितजनसंतापनिवहः, सदानन्दी नन्दी भविजनमनोऽम्भोजविततेः रविभव्यो भव्योल्बणकलिकलाखण्डनविधौ, स वो धीरो धीरो भवतु शमिनां सिद्धिविजयः ।।७।। सुराद्रिाऽद्रिर्वाऽऽचरति महिमाऽऽरामहिमरुक,
सुधीर्येनाऽयेनाऽखिलजनकृते धैर्यकलया। · भिदाऽऽलोकालोकाऽघगणतमसां स्वस्य समुदा द्रुत दाता दाता भवतु खमखं सिद्धिविजयः ।।८।। स्तवनमिति प्रमोद सत्सभासप्रमोद, पठतु नृहितरङ्ग पुण्यवाद्धौं तरङ्गम् । मुनियशसि सुमेधं धर्मवीरुत्सु मेघ, वृजिनहरणकारं - भूरिकल्याणकारम् ॥६॥
. श्रीकीर्तिचन्द्रमुनिस्तुत्यष्टकम् प्रशान्तिमार्गाऽनुगतः प्रशान्त
तमास्तत श्वेतकरप्रकाशः । संप्रीणिताऽशेषचकोरचेताः,
श्रीकीर्तिचन्द्रो बिजयं बिभर्तु ॥१।। शुभोदयं पूर्णकलं प्रवृद्ध
___ पुण्यालिचेतो विहरन्तमीशम् । गवां भरैः को मुदमेधयन्तं,
. श्रीकीर्तिचन्द्र नमत प्रयत्नात् ।।२।। प्रसपिपुण्याऽमृतनिझरेण,
प्रह्लादिना सत्सुमनोवरेण । लोकेषु शांति ददता जनोऽयं, - श्रीकीर्तिचन्द्रेण भवेत्सनाथः ।।३।। शुभौषधीशाय लसन्महिम्ने,
महामहीमण्डलमण्डनाय ।