________________
५०)
मन्त्रकल्प संग्रह
१६ दर्शनवन्दनफलचरितम - धन्यास्त एव तव दर्शनवन्दनाभ्या
मासादयन्ति निजजन्मफलं मनुष्याः । अस्मादृशैस्तु गुरुदर्शनयोगवन्ध्यैः,
कल्याणसिद्धिद, गुरो शरणं किमेष्यम् ।।१६।। परमगुरु पं०श्रीसिद्धिविजयररिस्तुत्यष्टकम्
शिखरिणीवृत्तम् धुनानो मूर्छारात्रिबृहिततमः संघमुदयाऽचले वा पट्टे - यः सुकृतकथनाऽऽरम्भसमये । स्थितो भाति स्वीयैदिवसपतिवज्ज्ञान-किरणैः, स रक्ष्यात्पापेभ्यो निखिलजनतां सिद्धिविजयः ॥१॥ निशाम्याऽऽस्यं यस्याखिलजनमनो हारिनयनं. विधुर्दभ्रे यत्नं तदनुकरणं कर्तु मनिशम् गतोऽशक्तो वोच्चैर्गगन शिखरान् मङ क्षु पतित, स वः शमं पुष्यान्मुनिगणगुरुः सिद्धिविजयः ।।२।। सदाचारयेयोऽप्यतिकुलजननिर्मितमहः: सुमाधूनां सेव्योऽपि च कुयतिनां चित्तमदकृत् । सकामो निष्कामोऽप्यसमंवदनो वादितिलकः, सदान-दस्थानं दिशतु भविनां सिद्धिविजयः ।।३।। ध्रुवं येनाऽदाहि ज्वलिततरसद्धयानशिखिना, द्रुत कामक्रोधोल्बरणमदविपल्लोभप्रभृति । न चेदभ्रव्याजाद्वियदुपलसेद्ध मपटलैः, स वो नीयान्मुक्त र्गहनसरणि सिद्धिविजयः ।।४।। सूधासाम्यं धत्ते विहितविबूधाऽऽनन्दनिकरं, वचः प्राप्त यस्याऽखिलतनुजुषामक्षाविषयम्।। विनाश्याऽघ सर्वं गतमृति ददन्निर्जरपदं, जगबंधुर्दिश्यात् स सुकृतभरं सिद्धिविजयः ।।५।। तपःपार्दीप्ते विहितकुमुदानन्दविशरे, प्रतापाऽर्के । यस्य प्रसरति जगन्मोहतमसाम् । .