________________
४२)
मन्त्रकल्प संग्रह
जयाभिलाषिवाजिराजिराजिराजराजिता
प्रपञ्च ! चामरालिशोभिपार्श्व ! पार्श्वगावन ! यदूज्ज्वलान्वयाम्बुराशिभासनाऽब्जभासुर ! विधेहि मां भवाम्बुधेस्तटानुयायिनं विभो ! ।।३।। ( इति नेमिजिनचैत्यवन्दनम् ।) श्रीपार्श्वजिनचैत्यवन्दनम्
(शिखरिणीवृत्तम ) सदा शुद्धा मूर्तिर्मदनमदमोहादिविकला,
कलाऽपूर्वा वाक्ये सुतनुमदविद्यान्तकरणे । रणे रङ्गो नित्यं विततभवभावारिनिधने,
- धने मूत्यिागः वर तरसुवर्णादिनिकरे ॥१॥ करे शस्त्राभावो जनितजनसंतापशमनो,
मनोऽपूर्वध्यानस्थ गितनिखिलाऽवद्यविवरम् । वरं धर्मस्थैर्य भूवनविदिता कापि समता, '
मता मह्या मैत्री तनुमदधिवात्सल्यसहिता ।।२।। हिताधाना एतेऽतुलसुकृतसंभारजनिता,
नितान्तं राजन्ते भवति सुगुणाः पार्श्व ! सुतषः । तपस्त्रस्यच्छैत्यं किरण विसराऽस्ताऽन्धतमसं, '
मसं मोघीकुर्वन्नवरविरिव प्राशिखरिणि ।।३।। __ (इति पार्श्व जिनचैत्यवन्दनम् । )
श्री वीरजिनचैत्यवन्दनम्
( शार्दूलविक्रीडितवृत्तम् ) वीरः सर्वहितः सदोदितसुखं वोरं जनालिः श्रिता,
वीरेण प्रविताडिता रिपुततिर्वीराय धत्त नतिम् । वीराद्विश्वमहोदयो धृतजयो वीरस्य वीर्य महत्,
वीरे विस्तृततां गता गुणलता वोर ! प्रदेयाः शिवम् ।।१।। यो मुक्तिश्रिय मातनोति सुदृशां यं स्वर्गनाथा नता,
येनाऽभेद्य विभेद्यकर्मनिकरो यस्मै जनःश्लाघते । यस्मादुर्गुणसंततिर्गतवतो यस्य प्रपूतं वचो,
यस्मिन्पङ्कजकोमले जनमनो भृङ्गोपमं लीयते ।।२।।