________________
चैत्यवन्दन संग्रह
कनक प्रभाव ! भवदागमागम !
सुकृतोदयेन भवदागमागमः । समपद्यतात्महितकारणं मम,
भवनाशनं भवतु तेन निर्मम ! ॥३॥ ( इति मुनिसुव्रतजिनचैत्यवन्दनम् ।)
श्रीनमिजिनचैत्यवन्दनम् । . (प्रमाणिकावृत्तम) सकर्णकर्णतोषिणी; हिताऽऽहिताऽधिसंस्कृतिः । सदा सदानवैः सुरता नु तायिनी नृणाम् ।।१।। नयानयादिराजिता - ऽगमर्गमैगरीयसी। प्रमाप्रमाणपरिता, महषिहर्षिणी सदा ।।२।। दयोदयोज्ज्वला सदाऽक्षयाऽक्षयामिनी विशाम् । धियोऽधिंयोगकारिणी, भियोऽभियोगनाशिनी ।।३। यदीदृशी सरस्वती, न रोचते सरस्वती।
जनांय ते सुणिका जगद्दशासुणिका ।।४।। नमे! न मे प्रमाणिका. नरस्य धीस्तदीदृशः । मतं मतं विपर्यय-प्रसाधनं न धीदृशः ।।५।।
(पञ्चभिः कुलकम् ) (इति नमिनाथचैत्यवन्दन म ।) श्री नेमिजिनचैत्यवन्दनम्
(पञ्चचामरवृत्तम् ) क्षणं निरीक्ष्य वीक्षणैः प्रतिक्षणं क्षयान्वितं,
. क्षणं यदप्रतीक्षितं क्षमेशमण्डलैः क्षितौ । असारसंसृदुद्भवातिभीतिभागजनो यमा
श्रयेद्धिताय भक्तितस्त मानतोऽस्मि नेमिनम् ।।१।। कुरंगरङ्गभङ्ग भीरुताभरावभारित !
निदर्शनी भवन् दयालुताजुषां विशां धुरि। विवाहवाहवाहनावरुद्धराज्यहायक !
भवन्तमीदृशं दयालुमाश्रितोऽस्मि रक्ष माम् ।।२।।