________________
४०]
मन्त्रकल्प संग्रह
हृदयहरणैहविः क्षुब्धेतरं हरिणीदृशां
हृदयममलं देवीसूनोस्तनोतु सुखं विशाम् ||३||
( इत्य र जिन चैत्यवन्दनम् ।)
श्रीमल्लिनाथजिनचैत्यवंदनम्
( वरतनुवृत्तम् ) अयि हितकारक ! मल्लिनाथ ! ते,
चरणयुगं सुरपोऽपि नाथते ।
भवजलतारण शक्ति मत्परं
द्रुतमभितारय मामतः परम् ॥१॥
1. अयि नतवत्सल ! नापदां पदं,
भवति जनो भवतां श्रितः पदम् । किमु कृतकल्प महीरुहाचंनः,
समजनि दुर्गतकः कदाचन ||२||
भवदभिधाजपबद्धमानसे,
ननु भुवि भव्यजने समानसे ।
वर ! तनुताद्वरमतिनाशनं,
पदमितवन्नविवत नाशनम् ॥ ३॥ ( इति मल्लिनाथजिनचैत्यवन्दम् ।)
श्रीमुनिसुव्रत जिनचैत्यवन्दनम् ( कनकप्रभावृत्तम. )
मुनिसुव्रतस्य भववारिधेः परं,
तटमागतस्य तरसा विधेः
परम् ।
स्तवनां करोतु जनता शुभशिया,
शिवसाधनाप्तिरसिका शुभाशया ॥१॥ प्रवरप्रतापपरभाव भावितं,
भविनं करोति परभावभावितम्,
विमल यदीयचरणद्वयं सतां,
विमलां ददातु परम रमां सताम !
1
।।२।।