________________
चैत्यवंदन संग्रह
श्री कुन्थुनाथ जिनचैत्यवन्दनम् ( कामक्रीडावृत्तम् )
संसृत्तारं विध्वस्तारं श्रीदातारं धातारं,
चञ्चच्छोभारम्यं गम्यं योगीशानामीशानाम् । ससाराम्भ राशि तीर्णं सौख्याकीर्णं विस्तीर्णं,
वन्दे देवं कृत्यासेव कुन्थु सावं सर्वज्ञम् ||१|| त्यक्तासारं ज्ञानोदारं विश्वोद्धारं विद्यारं,
स्फूर्ज द्योगं मुक्तोद्योगं भासा चन्द्रं निस्तन्द्रम | सख्यावन्तं पुण्योदन्तं कीर्त्या कान्तं संशान्तं,
वन्द े देवं दत्तासेवं सौधर्मेश धर्मे ||२||
आयुर्विद्य द्योताभं स्वर्लीलां की लाभामन्ते,
विज्ञा विज्ञायाशु क्रीड़ां कामक्रीड़ां संप्रोज्झ्य ।
दुःखोद्र कच्छेदच्छेकं भक्त्युद्र के विभ्राणा,
देवाः सेवां यस्याऽकुर्वन्कुन्थुः कुर्यात् कल्याणम् ॥३॥ (इति कुन्थुजिन चैत्यवन्दनम् )
•
श्री अरनाथजिनचैत्यवन्दनम् (हरिणीवृतम् ) जनितजनतानन्दं कन्दं महोदयवीरुधा
मविरतिरतिप्रीतिप्रौढ़िप्रमुक्तमगुर्बुधाः ।
यममशरणा लब्धोत्कर्णाः शरण्यमनिन्दितं,
सदिशतु शिव देवीसूनुर्भवान्तमनिन्दितम् ॥१॥
[3
अतुलजवना बद्धस्पर्द्धाः सुरासुरनायका,
यदभिगमने लब्ध्वोत्कण्ठा भवन्त्यविनायकाः । रजिनपतेः पादद्वन्द्व सरोजविकस्वर,
दलमतुतरां पापद्वन्द्व प्रभाजितभास्करम् ||२||
शुभ मतिजन स्वान्तध्वान्तप्रणाशनभास्करं,
विदलितदरद्वेषाऽज्ञान विरागसमादरम् ।