________________
३८]
मन्त्रकल्प संग्रह
भव्यहंसः श्रितं पुण्यगन्धाश्रितं,
राजते पद्मशोभा परिह्रासयत् ॥१॥ धर्मनाम ! स्वयोद्दिष्टधर्मे कृत
___ वर्तनाः कर्तनायोत्कटद्वषिणाम्। स्युर्जनाः सेव्यसे त्वं ततः स्वार्थिभि
देवराजासुरैः केवलस्वाथिभिः ।।२।। स्रग्विणी भक्त चेतस्तमश्च रिका,
पूरिका स्वर्गनिःश्रेयसां सपदाम् । मूत्तिरेवविधा ते यशः साधिका,
दीयतां भद्रमानन्दवासाधिका ॥३॥ (इति धर्मनाथचत्यवंन्दनम्।). श्री शान्तिजिनचैत्यवन्दनम्
(मालिनीवृत्तम् ) शिवपदसुखकारी कर्मविद्व षिवारी,...
____ मदनमदविभेदी विश्वस्त्वेकवेती। भवजलधिविशोषी पापवारप्रमोषी,
दिशतु कुशलमीशः शान्तिनाथो मुनीशः ।।१॥ स्वहृदि धृतभवन्ता प्रास्तरागा भवन्तः,
, तव नतिशुभवन्तस्ते नरा पुण्यवन्त । अतिशयसुखसारं केवलालोकसार, .. परमपदमुदारं यान्ति भव्या मुहारम् ।।। प्रशमरसविपुष्टा नाशिताशेषदुष्टा
___ जगति जनितचित्रा पुष्यपोष प्रवित्रा। महिमजितसमुद्रा मालिनी यस्य मुद्रा, स जयति जिनशान्तिनिर्जितस्वर्गकान्तिः ।।३।। . (इति शान्तिनाथचैत्यवन्दनम् ।)