________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
[११
... ध्यायन्ति ये निजशरीरकृतावतार
ते नाथ शाश्वतपदश्रयिणो भवन्ति ।।५४।। देवोऽष्टादशदोषवज्जितपुरोऽष्टप्रातिहार्यान्वितो, नासावंशनिवेशतारनयनः सर्वप्रभावैर्युतः ।
स्फूर्जत्कर्मकरीन्द्रविद्रवहरिः काष्टकस्फूतिमान्, . वामेयः कमठासुरेण विनतः पायादपायादसौ ॥५५।। इति मध्यवलये जिनमन्त्रव्यावर्णनो नाम द्वितीयः पटलः ।।
। अथ तृतीयः पटल : मन्त्राधिराज वलये विमले द्वितीये,
.. षटचन्द्रकोष्टकयुते परितः स्थिताश्च । विद्यासुरी रसविधु१६ प्रमिता हिताय,
वर्णास्त्रवाहनभुजैरथ संस्तवो म ॥१॥ गोवाहना कुन्दसमानवर्णा, चापाक्षमालाशरशङ्कयुक्ता। चलर्भुजा भूषणभूषिताङ्गी सा रोहिणी नो दुरितानि हन्तु ॥२॥ त्रिशूलदण्डा- भयबोजपूर,-हस्ता प्रशस्ता वरलोहिताङ्गा। या देवता पज्ञप्ततीति नाम्नी, सर्पासनस्था दुरितानि हन्तु ।।३।। श्वेतद्य तिर्यावरदामपद्म,-सत्श्रंखलारुद्धभुजा महाभा। या वज्रपूर्वा भुवि शृखलाख्या पद्मासनस्था दुरितानि हन्तु ॥४॥ जांबूनदाभा गजगामिनो हि, फलाक्षमालांकुशःशूलपाणिः । अनेकदेवाभिनतानताङ्गी वज्राङ्क शी नो दुरितानि हन्तु ।।५।।
.... ॥६॥ रक्ताक्षबद्धासन संस्थितिर्या, हेमप्रभा खेटकखङ्गहस्ता। स बीजपूराऽभयदानशस्ता, नदत्तनाम्नी दुरितानि हन्तु ।।७।।